________________
कर्मप्रकृतिः
119 11
(मलय ० ) – 'वेउन्निगाए' त्ति-वैक्रियशरीरनाम्नः, उपलक्षणमेतद्वैक्रिय बन्धनचतुष्टयस्य वैक्रियसंघातस्य च सुरा नरयिका वा आहारका - ओजोलो माद्यन्यतममाहारं गृह्णन्तः, यश्च नरस्तिर्यङ् वा संज्ञी वैक्रियलब्धिमान्, यश्च बादरपवनो दुर्भगनामोदयी लब्धिपर्याप्तको - वैक्रियशरीरलब्ध्या पर्याप्तः, ते सर्वेऽप्युदीरकाः ॥ ८ ॥
( उ० ) — वैक्रियशरीरनाम्न उपलक्षणाद्वैक्रियबन्धनचतुष्टयस्य वैक्रियसङ्घातनस्य च सुरा नैरयिका वाऽऽहारका ओजोलोमान्यतमाहारग्राहिण आहारपर्याप्ता इतियावत्, यश्च नरस्तिर्यङ् वा संज्ञी वैक्रियलब्धि संपन्नो, यश्च बादरपवनो दुर्भगनामोदयी लब्धिपर्याप्तको वैक्रियशरीरलब्ध्या पर्याप्तो भवेत्ते सर्वेऽप्युदीरकाः ॥ ८ ॥
विगाए तल्ला पवणबायरं हिच्चा । आहारगाए विरओ विउव्वयतो पमत्तो य ॥९॥
(चू०) – वेउग्वितअंगोवंगणामाए विउच्चितसरीरतुलं । 'पवणवापरं हिचत्ति - बादरवाउक्कातितं मोत्तणं, तंमि णत्थि । 'आहारगाए विरओ विउब्वयंतो पमत्तोय' । आहारजातं (गाए) आहारसरीरणामाए, विरतो-संजतो, विउब्वयंतोत्ति-वेउग्विंयभावे वट्टमाणो, पमत्तों- पमायसहितो, उदीरेति नं आहारसरीरं ॥९॥
(मलय ० ) – 'वेउब्विउ' त्ति-वैक्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीरतुल्या वेदितव्याः । ये वैक्रियशरीरनाश्न उदीरकाः प्रागुपदिष्टास्त एव वैक्रियाङ्गोपाङ्गनाम्नोऽपि वेदितव्या इत्यर्थः । किं सर्वेऽपि ? नेत्याह - बादरपवनं - बादरवायुकायिकं हित्वा-परित्यज्य शेषा द्रष्टव्याः । ' आहारगाए' इत्यादि - आहारकशरीरनाम्नो विरतः संयतस्तदाहारकशरीरं कुर्वन् प्रमत्तः प्रमादभावमुपगतः सन् उदीरको भवति ।। ९ ।।
प्रकृत्युदीरणा
॥७॥