SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः प्रकृत्युदी रणा ॥६॥ प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः ॥६॥ (उ०) त्रसबादरपर्याप्तानां सेतराणां-सप्रतिपक्षाणां स्थावरसूक्ष्मापर्याप्तसहितानामित्यर्थः, तथा गतीनां चतसृणां, जातीनां पञ्चानां, | दृष्टीनां तिसृणां मिथ्यात्वसम्यक्त्वमिश्रदृष्टिलक्षणानां, वेदानां त्रयाणां, आयुषां च चतुणां, सर्वसंख्यया पञ्चविंशतिप्रकृतीनां यथास्वं | तन्नामानस्तत्तत्प्रकृतिनिष्पन्ननामान उदीरकाः, तथाहि-त्रसनाम्नस्त्रसाः, बादरनाम्नो बादराः, ते च शरीरेऽपान्तरालगतौ च वर्तमाना | उदीरकाः। एवं सर्वेषामपि भावनीयम् । तथा प्रत्येकनाम्न इतरस्य च साधारणनाम्नस्तनुस्थाः शरीरपर्याप्या पर्याप्ता इत्यर्थः । यथा| क्रमं प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः ॥ ६॥ आहारग नरतिरिया सरीरदुगवेयए पमोत्तूणं । ओरालाए एवं यदुवंगाए तसजियाउं ॥७॥ (चू०)-'आहारगनरतिरिया' इति-अणाहारगाणं पडिसेहो कीरइ, आहरगाजे णरतिरिता 'सरीरदुगवेदएप | मोत्तूणं'-तत्थ वेउब्वियआहारसरीरवेदेण मोत्तृणं 'उरालिएत्ति-उरालियसरीरणामाए सव्वे उदीरगा। 'एवं तदु| वंगाए'-एमेव उरालितसरीरअङ्गोवंगणामाए, णवरि 'तसजियाओं-तसकाइगा उदिति ॥७॥ . (मलय०)-'आहारग' त्ति-ये नरा मनुष्यास्तियश्चश्व आहारका ओजोलोमप्रक्षेपाहारणामन्यतममाहारं गृह्णन्तस्ते औदारिकशरीरनाम्नः । उपलक्षणमेतदौदारिकबन्धनचतुष्टयस्यौदारिकसंघातस्य चोदीरकाः, किं सर्वेऽपि ? नेत्याह-शरीरद्विकवेदकान् प्रमुच्य, शरीर| द्विकमाहारकवैक्रियलक्षणं तत्स्थान् परित्यज्य । ते हि नौदारिकशरीरनामोदये वर्तन्ते, तत्कथं तस्योदीरकाः स्युः । तथवमुक्तेन प्रकारेण 'तदुवंगाए' त्ति तदंगोपांगनाम्न औदारिकांगोपांगनाम्न उदीरका वेदितव्याः । केवलं ते त्रसकायिका एव, न स्थावराः, |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy