________________
चरिमट्टिती उव्वहिज्जति, ततो समयाहियादिए विसुं सव्वेहिं उवदृत्ति । ततो अतित्थावणा वड्डति जाव आवलिया | पुण्णा । ततो पच्छा णिक्खेवो पवति पुवकमेण । इदाणिं एसि अप्पाबहुगं-उव्वहिजमाणीणं ठितीणं जहन्निया अतित्थावणा जहण्णतो त णिक्खेवो, एते णं दो वि तुल्ला सम्वत्थोवा, एक्केक्को आवलियाए असंखे| जतिभागो त्ति काउं । उक्कोसिया अतित्थावणा असंखेजगुणा, साय अबाहा। उक्कोसतो द्वितिनिक्खेवो असं| खेजगुणो, सो य कम्मट्ठिति वि समउत्तरावलियाए अबाहाए य ऊणा । सवाय कम्महिती विसेसाहिता ॥३॥
(मलय०) एषोऽव्याघाते दलिकनिक्षेपविधिरुक्तः । व्याघाते पुनरेवं–'निव्वाधाएण'त्ति एवं पूर्वोक्तेन प्रकारेण दलिकनिक्षेपो निर्व्याघातेन-व्याघाताभावेन द्रष्टव्यः। व्याघाते पुनः प्राक्तनस्थितिसत्कर्मापेक्षयाऽभ्यधिकाभिनवकर्मबन्धरूपे आवलिकाs| संख्येयभागादिकाऽतीत्थापना भवति । निक्षेपोऽप्यावलिकागतासंख्येभागादिकः । इयमत्र भावना प्राक्तनसत्कर्मस्थित्यपेक्षया समयादिनाम्यधिको योऽभिनवकर्मबन्धः स व्याघात उच्यते । तस्मिन् सत्यतीत्थापना आवलिकासंख्येयभागादिका भवति । तथाहिप्राक्तनसत्कर्मस्थितेः सकाशात् समयमात्रेणाभ्यधिकेभिनवकर्मवन्धे सति प्राक्तनसत्कर्मणोऽन्त्या वा द्विचरमा वा स्थितिर्नोद्वय॑ते । एवं समयद्वयेन समयत्रयेण यावदावलिकाया असंख्येयतमेनापि भागेनाभ्यधिकेऽभिनवकर्मयन्धे द्रष्टव्यम् । यदा पुनर्वाभ्यामावलिकाया असंख्येयतमाभ्यां भागाभ्यामभ्यधिकोऽभिनवकर्मबन्ध उपजायते तदा प्राक्तनसत्कर्मणोऽन्त्या स्थितिरुद्वय॑ते । उद्वर्त्य चावलिकायाः प्रथममसंख्येयतम भागमतिक्रम्य द्वितीयेऽसंख्येयतमे भागे निक्षिप्यते । एतावतीत्थापनानिक्षेपौ जघन्यो । यदा पुनः समयाधाधिकाभ्यां द्वाभ्यामावलिकाया असंख्येयतमाभ्यां भागाभ्यामधिकोऽभिनवकर्मवन्धस्तदा आवलिकायाः प्रथममसंख्येयतमं भागं सम
చేసుకుంటారు