________________
अDACODINOD
(उ०) सम्पति निक्षेपनिरूपणायाह-इह निक्षेपो द्विधा जघन्य उत्कृष्टश्च । तत्रावलिकाया असंख्येयभागमात्रासु स्थितिषु यः || कर्मदलिकनिक्षेपः स जघन्यः, तथाहि-सर्वोत्कृष्टात् स्थित्यग्रादध आवलिकामावलिकाया असंख्येयं च भागमवतीर्य याऽधस्तनी | स्थितिरायाति तस्या दलिकमतीत्थापनारूपमावलिकामतिक्रम्योपरितनीष्वेवावलिकाया असंख्येयभागभाविनीषु निक्षिप्यते, नाबलिकाया | मध्येऽपि, आवलिकां मुक्त्वैवाधस्तनस्थितीनामुपरि संक्रमणस्वाभाव्यात् , ततोऽसावेतावान् जघन्यो दलिकनिक्षेपविषयः । एवं च सत्यावलिकाया असंख्येयतमेन भागेनाधिकारखावलिकामात्रासु स्थितिषूद्वर्त्तनं न भवतीति सिद्धम् । तथा च सत्युत्कृष्टस्थितिबन्धे उद्वर्तना| योग्याः स्थितयो बधावलिकामबाधामुपरितनी चावलिकामसंख्येयभागाधिका मुक्त्वा शेषा एव द्रष्टव्याः, बन्धावलिकायाः सकलकरणायोग्यत्वेनाबाधायाश्च प्रागतीत्थापनात्वप्रतिपादनेन बन्धावलिका तर्गतानामबाधान्तर्गतानां च स्थितीनामुदतनायोग्यत्वात् , असंख्येयभागाधिकावलिकामात्रभाविनीनां चोपरितनीनां स्थितीनां प्रागुक्तयुक्तेरेव तथात्वात् । तत्र यदावलिकामावलिकाया असंख्येयभागं चोपरितनस्थानादधोऽवतीर्य द्वितीयाऽधस्तनी स्थितिरुद्वय॑ते तदा समयाधिक आबलिकाया असंख्येयभागो निक्षेपविषयः । यदा तु तृतीया स्थितिरुद्वय॑ते तदा द्विसमयाधिकः । एवं समयप्रवृद्धया वर्धमानो दलिकनिक्षेपस्तावद्वाच्यो यावदुत्कृष्टो भवति । तस्य च प्रमाणं समयाधिकावलिकयाऽबाधया च हीना सर्वा कर्मस्थितिः । तथाहि-अबाधाया उपरि स्वस्थितीनामुद्वर्त्तना भवति, तत्राप्यबाधोपरितनस्य स्थितिस्थानस्योदय॑मानस्य दलिकमबाधाया उपरि निक्षिप्यते, न तु तन्मध्येऽपि, उद्वय॑मानदलिकस्योदय॑मानस्थितेरूर्ध्वमेवटी निक्षेपात । स्त्राप्युद्वय॑मानस्थितेरुपर्यावलिकामात्राः स्थितीरतिक्रम्योपरितनीषु स्थितिषु सर्वासु दलिकनिक्षेपो भवति । ततोऽतीत्था| पनावलिकामुय॑मानां समयमात्रां स्थितिमवाधां च वर्जयित्वा शेषा सर्वाऽपि स्थितिरु-कृष्टो दलिकनिक्षेपविषय इति । अयमु-कृष्टो
ORGGGGGSHES