SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ (उ०) नरकद्विकम् नरकगतिनरकानुपूर्वीलक्षणं पूर्वकोटिपृथक्त्वं यावत्पूरयित्वा, पूर्वकोट्यायुष्कतियग्भवसप्तके भूयो भूयो बन्धना-1 पूर्वेत्यर्थः । ततोऽष्टमे भवे मनुष्यो भूत्वा क्षपकश्रेणिमारुह्यान्यत्र तत्संक्रमयन् चरमसंछोभे सर्वसंक्रमेण तस्योत्कृष्टं प्रदेशसंक्रमं करोति। तथा देवगतिदेवानुपूर्वीवैक्रियसप्तकलक्षणं देवगतिनवकं पूर्वकोटिपृथक्त्वं यावदापूर्याष्टमे भवे क्षपकश्रेणिं प्रतिपन्नः सन् बन्धान्ता-स्वबन्धव्यवच्छेदानन्तरमावलिकां गत्वा आवलिकामात्रं कालमतीत्य यदा तद्यशःकीत्तौ प्रक्षिप्यते तदा प्रकृत्यन्तरदलिकानामपि गुणसंक्रमोपनीतानां संक्रमावलिकातिक्रान्तत्वेन संक्रम इति तस्योत्कृष्टप्रदेशसंक्रमो भवति ॥९॥ सवचिरं सम्मत्तं अणुपालिय. पूरइत्तु मणुयदुगं । सत्तमखिइनिग्गइए पढमे समए नरदुगस्स ॥११॥ (चू०)-'सव्वचिरं ति। सव्वुस्सं कालं नारगो तित्तीसं सागरोवमाइं अंतोमुहत्तूणाई संमत्तं अणुपालिय | परित्त मणुयगतिमणुयाणुपुव्वीओ बन्धित्तु तेत्तीससागरोवमा अन्तोमुहत्तुणा चरिमे अन्तोमुहुत्ते मिच्छत्तं गतो | 'सत्तमखिइनिग्गहए' सत्तमपुढवीतो णिग्गयस्स पढमसमये वट्टमाणस्स णरदुगस्स-मणुतगतिमणुताणुपुवीणं उकोसो पदेससंकमो भवति, अहापवत्तो त्ति किच्चा ॥११॥ (मलय०) 'सव्वचिरं' ति । सर्वचिरं-सर्वोत्कृष्टं कालं-अन्तर्मुहूर्तोनानि त्रयस्त्रिंशत्सागरोपमाणीत्यर्थः, सम्यक्त्वमनुपाल्य नारकः १२ सप्तमक्षितौ वर्तमानः सम्यक्त्वप्रत्ययं तावन्तं कालं मनुजद्विकं-मनुजगतिमनुजानुपूर्वीलक्षणमापूर्य बद्ध्वा चरमेऽन्तर्मुहूर्ते मिथ्यात्वं | गतः। ततस्तन्निमित्तं तिर्यग्द्विकं तस्य बघ्नतो गुणितकमांशस्य सप्तमपृथिव्याः सकाशाद्विनिर्गतस्य प्रथमसमये एव मनुजद्विकं यथाप्रवृत्तसंक्रमेण तस्मिन् तिर्यग्दिक बध्यमाने संक्रमयतस्तस्य मनुजद्विकस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥ ९१ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy