________________
(उ० ) - तदेवमुक्तो गुणितकमशः सम्प्रति स्वामित्वमभिधीयते - तस्य गुणितकर्माशस्य ततः सप्तमपृथ्वीरूपान्नरकादुद्धृत्य पर्याप्तपञ्चेन्द्रियतिर्यक्षु मध्ये समुत्पन्नस्य तद्भवस्थस्य तस्मिन् पर्याप्तसंज्ञिपञ्चेन्द्रियभवे तिष्ठतः 'आवलिंगासमय' त्ति लुप्तसप्तम्यन्तनिर्देशः, आद्यतद्भवावलिकाया उपरितने चरमसमय इत्यर्थः, ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकौ दारिकस प्तकलक्षणानामेकविंशतिप्रक्रतीनामुत्कृष्टप्रदेशसंक्रमो भवति । यत एतासां कर्मप्रकृतीनां नारकभवान्त्यसमये उत्कृष्टयोगेनातिप्रभूतं दलिकमात्तम्, तच्च बन्धावलिकायामतीतायां संक्रम्यते, अन्यत्र चैतावत्प्रभूतं कर्मद लिकमुक्तप्रक्रियालभ्यं न लभ्यते, तत 'आवलिकान्तसमये तद्भवस्थस्य' इत्युक्तम् || | कम्मचउक्के असुभाणऽबज्झमाणीण सुहुमरागंते । संछोभणम्मि णियगे चउवीसाए नियसि ||८०||
(०) — 'कम्मचउक्के' - दंसणाव रणवेतणिज्जणामगोतेसु' असुभाणं अबज्झमाणीणं' - णिद्दादुगअसातावेयणिज्ज आदिल्लवज्ज संठाण संघयणं कुर्वण्णर्णवर्ग उवघातअपसत्यविहायगतिअपज्जत्तग अथिरादिछक गणीतागोत- एया सिंबत्तीसाए कंमाणं खवगस्स 'सहुम रागंते' - सुहुमरागस्स चरिमसमए उक्कोसो पदेससंकमो, गुणितकं मं सितस्स गुणसंकमेण लब्भति संछोभ इत्यर्थः । चब्बीसाए थीण गिद्धितिगछन्नोकसाया सत्तणाम अट्ठकसायाणं एतासं चवीसाए पगतीणं गुणितकंमंसितस्स अणियधिकरणे वट्टमाणस्स उक्कोसो पदेससंकमो सव्वसंकमेण लब्भति ॥
(मलय०)- 'कम्मचउक्के' ति-कर्मचतुष्के दर्शनावरणवेदनीयनामगोत्रलक्षणे या अशुभाः सूक्ष्मसंपरायावस्थायामबध्यमानाः प्रकृतो निद्राद्विकासात वेदनीयप्रथमवर्जसंस्थानप्रथमसंहननाशुभवर्णादिनव कोपघाताप्रशस्तविहायोगत्यपर्याप्तास्थिरा शुभदुर्भगदुः स्वरानादे