________________
नरद्विकं-मनुजगतिमनुजानुपूर्वीलक्षणम् । तदेवं मिथ्यादृष्टेरुद्वलना प्रतिपादिता, सम्प्रति सम्यग्दृष्टेः प्रतिपाद्यते 'अहानियट्टिम्मि छत्ती| साए' ति-अथशब्दोऽधिकारान्तरसूचकः। किमिदमधिकारान्तरमिति चेद् , उच्यते-प्राक्तनीनां प्रकृतीनामुबलना पल्योपमासंख्येयभाग-13 Y. मात्रेण काले न भवति यथायोग मिथ्यादृष्टेश्च, वक्ष्यमाणानां चान्तर्मुहूर्तेन कालेन सम्यग्दृष्टीनां चेत्यधिकारान्तरता । 'अनिवृत्ती'-अनिवृत्तिवादरसंपराये पत्रिंशत्प्रकृतीनामुट्ठलना । एतदुक्तं भवति-अनिवृत्तिबादरसंपरायः क्षपकः स्त्याना त्रिकनामत्रयोदशकाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकमवनोकषायसंज्वलनक्रोधमानमायालक्षणाः पत्रिंशत्प्रकृतीः स्वस्वक्षपणकालेऽन्तमुहर्तेन कालेनोद्वलयति । 'नियगे' इत्यादि । निजके-आत्मीये क्षपके स्वक्षपके विरतसम्यग्दृष्टयादावित्यर्थः। अत्र षष्ठ्यर्थे सप्तमी, 'सयोजनानाम् अनन्तानुबन्धिनां 'दृष्टियुगलस्थ च' मिथ्यात्वसम्यग्मिथ्यात्वयोश्च पूर्वोक्तविधिनोद्वलनाऽन्तर्मुहूर्तेन कालेनावगन्तव्या ॥६७।। N (उ०)-सूक्ष्मत्रसः तेजस्कायिको वायुकायिकश्वोत्तमम्-उत्तमगोत्रमुच्चैर्गोत्राभिधं पूर्वोक्तेनविधिनोद्वलयति । अतश्च पश्चान्नरद्विकं मनुजगतिमनुजानुपूर्वीलक्षणम् । तदेवं मिथ्यादृष्टेरुद्वलना प्रतिपादिता, अथ सम्यग्दृष्टेः सा प्रतिपाद्यते-'अह त्ति' अथशब्दोऽधिकारान्तरसूचकः, प्राक्तनीनां प्रकृतीनामुद्वलना पल्योपमासङ्खयेयभागमात्रकालभाविनी मिथ्यादृष्टिकर्तृका च, वक्ष्यमाणप्रकृत्युद्वलना चान्तमहर्त्तमात्रकालभाविनी सम्यग्दृष्टिकर्तृका चेत्येतदधिकारान्तरम् । 'अनिवृत्तो' अनिवृत्तिवादरसंपराये पत्रिंशत्प्रकृतीनामुदलना। तथाहिक्षपकोऽनिवृत्तिबादरसंपरायः स्त्यानार्द्वित्रिकनामत्रयोदशकमध्यमाष्टकषायनोकषायनवकसंज्वलनक्रोधमानमायालक्षणाः पत्रिंशत्प्रकृतयः
स्वस्वक्षपणकालेऽन्तर्मुहूर्तेन कालेनोद्वलयतीति । 'निजके'-स्वक्षपकेऽविरतसम्यग्दृष्टयादावित्यर्थः, सप्तम्याः षष्ठयर्थत्वात , संयोजनाना1941'-अनन्तानुबन्धिनां 'दृष्टियुगलस्य च'-मिथ्यात्वसम्यग्मिथ्यात्वलक्षणस्य पूर्वोक्तविधिनोद्वलनाऽन्तर्मुहर्त्तन कालेनावगन्तव्या ॥६७॥
acaIONAL