________________
|| (उ०) सर्वत्र सर्वेषु सूक्ष्मापर्याप्तादिनैरयिकान्तेषु असङ्खथेयवर्षायुस्तियग्मनुष्यमनुष्योपपातदेवसहितेषु मिथ्यादृष्टिषु सम्यग्दृष्टिषु ||
वाऽऽतपस्योद्योतस्य मनुजगतिमनुजानुपूयौदारिकद्विकवर्षभसंहननलक्षणस्य मनुजगतिपञ्चकस्य च, अत्रौदारिकहिकोक्तिभङ्गयाऽप्योदारिकसप्तकं गृह्यते तथैव विवक्षणात् , ततः सर्वसङ्ख्यया द्वादशानां प्रकृतीनां उत्कृष्टानुभागसंक्रमो ज्ञातव्यः । तथाहि-सम्यग्दृष्टिः शुभप्रकृतीनामनुभागं न विनाशयति किंतु विशेषतो व षषष्टी सागरोपमाणां यावदनुवर्तयति । तत उत्कर्षत एतावन्तं कालमियती| नां प्रकृतीनामुत्कृष्टमनुभागमविनाश्य पश्चात्सर्वत्र यथायोगमुत्पद्यते । ततो मिथ्यादृष्टिष्वप्यनन्तरोक्तप्रकृतीनामुत्कृष्टोऽनुभागसंक्रमोKIsन्तर्मुहर्त्त यावदवाप्यत इति । आतपोद्योतयोश्चोत्कृष्टोऽनुभागो मिथ्यादृष्टिनैव बध्यते इति तत्र तयोरुत्कृष्टानुभागसंक्रमो नासंभवी ।
स च मिथ्यात्वात्प्रतिपत्य सम्यक्त्वं गते सम्यग्दृष्टावपि प्राप्यते, सम्यग्दृष्टेः सतः शुभप्रकृतित्वेन तयोरुत्कृष्टानुभागाविनाशकत्वात् , * ततो द्वे पट्पष्टी अपि सागरोपमाणां यावदुत्कर्षतस्तयोस्तत्र संक्रमो द्रष्टव्यः । तथा चतुर्णामप्यायुषां सम्यग्दृष्टयो मिथ्यादृष्टयो बोत्कहटमनुभागं बद्ध्वा बन्धावलिकायामतीतायां संक्रमयन्ति तावद्यावत्समयाधिकावलिकाशेष इति । तत आयुषामुत्कृष्टानुभागसंक्रमस्वामिनः
सम्यग्दृष्टयो मिथ्यादृष्टयो वा प्राप्यन्ते । शेषाणां तु शुभप्रकृतीनां सातवेदनीयदेवद्विकपञ्चेन्द्रियजातिवैक्रियसप्तकाहारकसप्तकतैजससतकसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रवर्णसुरभिगन्धकषायाम्लमधुररसमृदुलघुस्निग्धोष्णस्पर्शप्रशस्तविहायोगत्युच्छ्वासागुरुलघुपराधातत्रसदशकनिर्माणतीर्थकरोचैर्गोत्रलक्षणानां चतुःपञ्चाशत्सङ्ख्यानां स्वस्वबन्धव्यवच्छेदसमये उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायाः परतस्तावदुत्कृष्टानुभागसंक्रमो यावत्सयोगिकेवलिचरमसमयः । तथा चैतासामुत्कृष्टानुभागससंक्रमस्वामिनः स्वबन्धव्यवच्छेदस्योपरि तनगुणस्थानस्था जीवा योग्यन्ताः सयोगिकेवलिपर्यवसाना द्रष्टव्याः ॥५४॥