SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः | 110611 z नि निष्ठां यान्ति ततः प्रभृति द्विस्थानक त्रिस्थानकचतुः स्थानकरसोपेतानि स्पर्धकानि सर्वाण्यपि मिथ्यात्वस्य द्रष्टव्यानि ॥ ४५ ॥ ( उ० ) - दर्शनमोहनीयस्पर्धकप्ररूपणां विशेषजिज्ञापयिषयाऽऽह — इह दर्शनमोहनीयसत्कर्म प्रतीत्य द्विविधानि रसस्पर्धकानि भवन्ति - देशघातीनि सर्वघातीनि च । तत्र यानि देशघातिस्पर्धकान्येकस्थानिकरसानि द्विस्थानिकरसानि वा तेषु सर्वेष्वपि सम्यक्त्वम् । यत्र | देशघातीनि स्पर्धकानि निष्ठितानि तदुपरि तु मिश्रं सम्यग्मिथ्यात्वस्य स्पर्धकानि भवन्ति । तानि च कियद्भवन्ति ? वाशब्दस्य यावदित्यर्थस्य भिन्नक्रमस्येह योजनात्, यावत् 'दारुसमान' इति । “लतादार्व स्थिशैलाख्या एकस्थानादयो रसाः” । इति ग्रन्थशैल्या द्विस्थानको | रसस्तस्य सम्बन्धिनां स्पर्धकानामनन्ततमो भागो गतो भवतीति । ततो यत्र सम्यग्मिथ्यात्वस्पर्धकानि निष्ठितान्यत उपरि द्विस्थानकत्रिस्थानकचतुःस्थानकरसोपेतानि सर्वाण्यपि मिथ्यात्वस्योपढौकन्ते ॥ ४५ ॥ इदाणिं लक्खणपरूवणत्थं भण्णति तत्पयं उव्वट्टिया व ओट्टिया व अविभागा । अणुभागसंकमो एस अन्नपगई णिया वावि ॥ ४६ ॥ (०) - 'तत्' इति अणुभागसंकमे, 'अट्ठपदं' ति- अणुभाग संकमसरूवणिद्धारणं, 'उत्र्वहिता व ओवहिता अविभागा' इति - उच्वहिता वि ओवहिता वि फड्डगा अणुभागसंकमो । 'अविभाग' त्ति अणुभागस्म णामं । 'अण्णपतिं णिया व' त्ति-अन्नपगतिसन्भावेणं परिणामिया वि फडगा अणुभागसंकमो त्ति । तत्थ मूलपगतीणं उब्वट्टणा (ओवट्टणा) एव, परोप्परं संकमो णत्थि । उत्तरपगतीणं तिष्णि वि ॥ ४६ ॥ (मलय०) - कृता स्पर्धकप्ररूपणा, सम्प्रति विशेषलक्षणप्ररूपणार्थमाह – 'तत्थ' त्ति । तत्रानुभाग संक्रमेऽर्थपदं याथात्म्य निर्धारणमिदं संक्रमकरणे अनुभाग संक्रमः । ॥७८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy