________________
शान्तौ सत्यां संक्रमाभावः, उपशमश्रेणितः प्रच्यवने च पुनरप्यजघन्यं स्थितिसंक्रममारभते, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनर-18| नादिः, अध्रुवधुवौ भव्याभव्यापेक्षया । 'सेसेसु य दुहा'-शेषेत्कृष्टानुत्कृष्टजघन्येषु द्विधा प्ररूपणा कर्त्तव्या, तद्यथा-सादिरध्रुवश्च । तत्रोत्कृष्टानुत्कृष्टयोर्यथा मूलप्रकृतिषु भावना कृता तथाऽत्रापि कर्त्तव्या,जघन्यस्थितिसंक्रमः स्वस्वक्षयावसरे प्राप्यते,ततोऽसौ सादिरध्रुवश्च ।। 'इयरासिं च' इत्यादि-इतरासामध्रुवसत्कर्मणां पूर्वोक्तानामष्टाविंशतिसंख्यानां सर्वत्रापि सर्वेष्वपि जघन्याजघन्योत्कृष्टानुत्कृष्टेषु द्विधा प्ररूपणा कर्त्तव्या, तद्यथा-सादिरध्रुवश्च । सा च साद्यध्रुवताऽध्रुवसत्कर्मत्वादेव परिभावनीया ॥३७॥
(उ०)-अथोत्तरप्रकृतीनां साद्यनादिप्ररूपणामाह-नरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकतीर्थकरनामसम्यक्त्वसम्य(अग्मिथ्यात्वोच्चैर्गोत्रायुश्चतुष्टयलक्षणा अष्टाविंशतिरध्रुवसत्कर्मिकाः प्रकृतयः। ततः शेषं त्रिंशदुत्तरं शतं ध्रुवसत्कर्मिकाणां भवति ।
ततोऽपि चारित्रमोहनीयप्रकृतयः पञ्चविंशतिरपनीयन्ते, पृथग्वक्ष्यमाणत्वात् । ततः शेषस्य पश्चोत्तरशतस्य स्वस्वक्षपणपर्यवसाने जघन्य|स्थितिसंक्रमो भवति, स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, स चानादिः, ध्रुवश्चाभव्यापेक्षया, भव्यापेक्षया चाधुव इति त्रिधा । चारित्रमोहनीयप्रकृतीनां पञ्चविंशतेरजघन्यःस्थितिसंक्रमश्चतुर्धा-सादिरनादिध्रुवोऽध्रुवश्चेति । तथाहि-उपशमश्रेणावुपशान्तानां | तासां संक्रमाभावः, उपशमश्रेणितः प्रतिपाते च पुनरप्यजघन्यः स्थितिसंक्रम आरभ्यत इत्यसौ सादिः, तत्स्थानमप्राप्तस्यानादिः। अध्रुव
ध्रुवौ भव्याभव्यापेक्षया । शेषेषत्कृष्टानुत्कृष्टजघन्येषु द्विधा विकल्पः-सादिरध्रुवश्चेति । तत्रोत्कृष्टानुत्कृष्टयोर्भावना मूलप्रकृतिवत्कार्या । ५. जघन्यस्थितिसंक्रमस्तु स्वस्वक्षयावसरे प्राप्यत इत्यसौ सादिरधुवश्च । इतरासामध्रुवसत्कर्मणामष्टाविंशतिसङ्ख्यानां प्रागुक्तानां सर्वत्रापि
सर्वेष्वपि जघन्याजघन्योत्कृष्टानुत्कृष्टेषु संक्रमेषु द्विधा विकल्पः-सादिरधुवश्चेति । सा च साद्यध्रुवताऽध्रुवसत्कर्मत्वादेवावसेया ॥३७॥
POISODEDIOS