SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ लनक्रोधस्य मासद्वयम् , संज्वलनमानस्य मासः, संज्वलनमायाया अधमासः, स एव जघन्यः स्थितिबन्धोऽबाधाकालोनस्तेषां जघ-18 न्यः स्थितिसंक्रमः । अबाधारहिता हि स्थितिरन्यत्र संक्रामति, तत्रैव कर्मदलिकसंभवात् , “आबाधाकालोना कर्मस्थितिः कर्मनिषेकः" | इति वचनात् , जघन्यस्थितिबन्धे चाऽबाधाऽन्तर्मुहूर्तप्रमाणा । न च जघन्यस्थितिसंक्रमणकालेऽबाधाकालमध्ये प्राग्बद्धं सत्कर्म प्राप्यते, तस्य तदानीं सर्वस्यापि क्षीणत्वात् । ततोऽन्तर्मुहूर्तहीन एवैतेषां पुरुषवेदादीनां स्वस्वजघन्यस्थितिबन्धो जघन्यस्थितिसंक्रमः । तदानीं चैतेषां यस्थितिः-सर्वा स्थितिः स्वकीयेनोनेनाबाधारूपान्तर्मुहूर्तलक्षणेन युक्तोऽबाधाकालसहित इत्यर्थः, जघन्यः स्थितिबन्धः ततः | पुनरप्यावलिकाद्विकेनोनो हीनः सन् द्रष्टव्यः । एतदुक्तं भवति-जघन्यस्थितिसंक्रमेबाधाकालः प्रक्षिप्यते, तत्प्रक्षेपानन्तरं चावलिकाद्विकं ततोऽपसार्यते, तदुत्सारणे च कृते यावती स्थितिर्भवति एतावती जघन्यस्थितिसंक्रमकाले सर्वा स्थितिः। आवलिकाद्विक कस्मादत्सार्यत इति चेदच्यते-बन्धव्यवच्छेदानन्तरं बन्धावलिकायामतीतायां चरमसमयबद्धाः पुरुषवेदादिप्रकृतिलताः संक्रमयितुमा| रब्धाः, आवलिकामात्रेण च कालेन ताः संक्रम्यन्ते, संक्रमावलिकाचरमसमये च जघन्यः स्थितिसंक्रमः प्राप्यते, ततो बन्धावलि| कासंक्रमावलिकारहित एवाबाधासहितो जघन्यः स्थितिबन्धो जघन्यस्थितिसंक्रमकाले सर्वा स्थितिः॥३४॥ | (उ०) संक्रमकाले सैव सङ्खथेयवर्षप्रमाणा स्थितिः 'सोनमुहूर्ता'-अन्तर्मुहर्तेनाभ्यधिका यस्थितिः सर्वा स्थितिः। तथाहि-अन्तरकरणे | वर्तमानस्तां सङ्खयेयवर्षप्रमाणां स्थिति संज्वलनक्रोधे संक्रमयति । अन्तरकरणे च कर्मदलिकं न वेद्यते, किंतु तत ऊर्ध्वम् , ततोऽन्तरकरणकालेनाभ्यधिका सङ्खयेयवर्षप्रमाणा स्थितिहस्यिपदकस्य जघन्यस्थितिसंक्रमकाले यत्स्थितिः । इमां च सङ्घयवर्षप्रमाणां स्थितिमपवर्तनाकरणेनापवर्त्य संज्वलनक्रोधस्योदयावलिकायां प्रक्षिपतीति प्रतिपत्तव्यम् , अन्यथा स्थितेः प्रभृतत्वादुदयावलिकाया बहिर्भागेऽपि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy