________________
यस्याश्चावलिकाया असंख्येयो भागः । अत्र वस्तुस्वभाव एप यन्निद्राद्विकस्यावलिकासंख्येयभागाधिकावलिकाद्विकशेषायां स्थिता-1 वुपरितनी समयमात्रैका स्थितिः संक्रामति, न पुनर्मतिज्ञानावरणीयादीनामिव समयाधिकावलिकाशेषायामिति । सम्प्रति यासां परप्रकृतिषु संभवी जघन्यस्थितिसंक्रमस्ताः प्रतिपादयति- 'हासच्छक्के इत्यादि । हास्येनोपलक्षितं षट्कं हास्यपदकं हास्यरत्यरतिभयशोक| जुगुप्सालक्षणं, तस्य क्षपकेणापवर्तनाकरणेन संख्येयवर्षप्रमाणा स्थितिः कृता । ततः सा स्वनिर्लेपनावसरे संज्वलनक्रोधे प्रक्षिप्यमाणा |१७ जघन्यः स्थितिसंक्रमः ।। ३३ ।।
(उ०)–'निद्राद्विकस्य'-निद्राप्रचलालक्षणस्य जघन्यस्थितिसंक्रमः स्वसंक्रमान्ते स्वस्थितरुपरितनी एका समयमात्रा स्थितिः, साऽधस्तन्या आवलिकायास्त्रिभागे समयाधिके निक्षिप्यते । तदानीं च यत्स्थितिः सर्वा स्थितिरावलिकाद्विकं तृतीयस्याश्चावलिकाया | असङ्खथेयो भागः। अत्रायं वस्तुस्वभावः यन्निद्राद्विकस्यावलिकाऽसङ्खयेयभागाधिकावलिकाद्विकशेषायां स्थितावुपरितनी समयमात्रैका स्थितिः संक्रामति, न तु मतिज्ञानावरणीयादीनामिव समयाधिकावलिकाशेषायामिति । अथ यासां परप्रकृतिषु पतगृहभृतासु संभवी जघन्यः स्थितिसंक्रमस्ताः प्रतिपादयति-'हासच्छक्के' इत्यादि । हास्येनोपलक्षितं पदक हास्यपदक हास्यरत्यरतिशोकभयजुगुप्सालक्षणम् , तस्य क्षपकेणापवर्तनाकरणेन सङ्घयेयवर्षप्रमाणा स्थितिः कृता, ततः सा स्वनिलेपनावसरे संज्वलनक्रोधे प्रक्षिप्यमाणा जघन्यः स्थितिसंक्रमः॥३३॥
तासिं जहितिपरिमाणणिरूवर्ण कीरतिसोणमुहुत्ता जट्ठिइ जहण्णबंधो उ पुरिससंजलणे । जट्रिइ सगऊणजुत्तो आवलियदुगूणगो तत्तो ॥३४॥
IDEODADDIDIO