SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३१॥ द्विके च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, द्विके एकके च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् ||२०|| ( उ० ) - अष्टौ द्विके त्रिके चतुष्के च संक्रामन्ति । तत्र द्विके त्रिके चोपशमश्रेण्यां वर्तमानस्य क्षायिकसम्यग्दृष्टेः, चतुष्के औपशमिकसम्यग्दृष्टेः । तथा सप्त त्रिके चतुष्के व बोद्धव्याः, ताश्च त्रिके चतुष्के चौपशमिकसम्यग्दृष्टेरेवोपशमश्रेण्यां वर्तमानस्य ज्ञातव्याः । तथा पदकं द्विक एव नियमाद्भवति, तच्च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथा पञ्च त्रिके एकके द्विके च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, द्विके एकके च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् ॥ २० ॥ चत्तारि तिगचउक्के तिन्नि तिगे एक्कगे य बोद्धव्या । दो दुसु एक्काए वि य एक्का एक्काइ बोद्धव्वा ॥ २१ ॥ ( मलय ० ) - ' चत्तारि 'ति । चतस्रत्रि के चतुष्के च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, चतुष्के क्षपक श्रेण्याम् । तथा तिस्रत्रिके एकके च बोद्धव्याः । तत्र त्रिके क्षपकश्रेण्याम्, एकके क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् । तथा द्वे प्रकृती द्वयोरेकस्यां च संक्रामतः । तत्र द्वयोः क्षपक श्रेण्यामौपशमिकसम्यग्दृष्टेवोपशमश्रेण्याम्, एकस्यां तु क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् । तथैकप्रकृतिरेकस्यां बोद्धव्या, सा च क्षपक श्रेण्यामेव । एतच्च पतद्ग्रहेषु संक्रमस्थानसंकलनं प्रागुक्तं सप्रपञ्चं पतद्ग्रहेषु संक्रमस्थानसंबन्धं पट्टकादौ प्रस्तार्य परिभावनीयम् ॥ २१ ॥ ( उ० ) – चतस्रत्रिके चतुष्के च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, चतुष्के क्षपकश्रेण्याम् । तथा तिस्रस्त्रिक एकके च बोद्धव्याः । तत्र त्रिके क्षपक श्रेण्याम्, एकके क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् । तथा द्वे प्रकृती द्वयोरेकस्यां च संक्रामतः । तत्र द्वयोः क्षपकश्रेण्याम्, औपशमिकसम्यग्दृष्टेश्वोपशमश्रेण्याम्, एकस्यां तु क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् । तथैका संक्रमकरणे प्रकृतिसंक्रमः । ॥ ३१ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy