________________
प्रस्तावना
संस्कृतेत्यवधारयिष्यन्ति विबुधाः ।
कारः समयश्चकर्मप्रकृतिः ।
भगवच्छ्रीशीवशर्मसूरयः पूर्वधराः प्रणीतवन्तोऽमुं कर्मप्रकृत्याख्यं मूलमन्थं चतुःशतपञ्चसप्ततिगाथात्मकमानायणीयनामकाद्वितीया
| पूर्वात्समुद्धृत्य । स्पष्टीकृतमेतद्ग्रन्थोपान्त्यगाथाटीकायां टीकाकृद्भिः। सत्तासमयश्चैतेषां भगवतामैतिह्याभावान्नाद्यावधि निश्चितः, नापि ARI १७ पूज्यानां के गुरवः, न च कियन्ति पूर्वाणि धृतवन्त इत्येतदपि । तथापि यथार्थापश्चिमागमोद्धारकाणां पूज्यश्रीदेवद्धिंगणिक्षमाश्रमणानां
पुरोगामिन पते आसन्निति तावन्नन्द्यादिपाठविलोकनेन निश्चीयते येन केनापि सुहृदयेन । संभाव्यते चैते भगवन्तो दश पूर्वान्धृतवन्त इति ।
चूणिश्वास्याः कैर्महात्मभिनिर्मितैतन ज्ञायते । अस्या मूलप्रतयः स्तम्भनतीर्थ-राजनगर-छायापुरी भाण्डागारेभ्य उपलब्धाः, परं तासु | नैकस्यामपि चणिकृत्परिचयो दृष्टोऽस्माभिः। जैनवाङ्गमये शूणिसाहित्यं श्रीजिनदासमहत्तरोपझं प्रायो विदितमस्ति विद्वत्समाजे । तैरेव यद्ये| पापि रचिता स्यात्तहिं न काप्यसंभावना । समयश्चैतेषां महात्मनां भवविरहाङ्किताचार्यश्रीहरिभद्रसूरिभ्योऽपि प्राचीनो मन्यते मतिमद्भिः।
टीका चैका प्राप्तदेवतावराचार्यश्रीमन्मलयगिरिपादेद्वितीया च ऐंकारपदोपासनाप्रसिद्धन्यायाचार्योपाध्यायश्रीयशोविजयगणिपादैः कृता विलोक्यते तत्तत्टीकाप्रान्तोपन्यस्ताभिः पूज्यप्रवराणां प्रशस्तिभिः । यद्यपि मलयगिरिपादानां समयो न निर्धार्यते, संभाव्यते तथापि परमाहतश्रीकुमारपालप्रतियोधकपूज्यश्रीहेमचन्द्रसूरि-कान्तिनगरोयजिनप्रासादसमानेत्राचार्यश्रीदेवेन्द्रसूरिसमकालिना, यतो राजराजेश्वरश्रीकुमारपालप्रबन्धे त्रयाणामप्येतेषां विद्यासिद्धये श्रीगिरनारगिरि प्रति सहगमन, क्रमेण तत्र स्वस्वराजप्रतिबोध-प्रासादसमानयन-आगमटीकाकरणविषये लब्धदेवताप्रसादश्वोक्तः। उपाध्यायश्रीयशोविजयपादा वक्रमीयसप्तदशशताब्दयामुपाध्यायश्रीविनयविजयगणिपादानां समकालिनाः समभूवन्नित्याबालजनप्रसिद्धम् । कृतयः
अनिर्दिष्टनामत्वेन श्रीमच्चूर्णिकारागामन्या का कृतयो भवेयुरेतद्वक्तुं न पार्यत अस्माभिः । यद्येते श्रीजिनदासमहत्तराः स्युस्तहिं
SADESISEDITORS
॥२॥