SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥ ८ ॥ ( च० ) - चसदा संकमे विमिच्छत्तजढा एव चउग्विहत्ति संबज्झइ सव्वधुवबंधपगतीणं । पंचन्हं णाणावरणीया णं णवण्हं दंसणावरणीयाणं सोलसन्हं कसायाणं भयं दुर्गछाणं तेजइयसत्तगं वण्णादीणं वीसाणं अगुरुलहुगं उवघाय णिमेण पंचन्हं अंतराइयाणं एयासिं सतसट्ठीपगतीणं धुवबंधियत्ति काउ जावप्पप्णो बन्धच्छेदो (न) भवति ताव धुवपडिग्गहत्तं । ततो अप्पप्पणो बन्धवोच्छेदे कते धुवसंकमपगतीणमेव सादियादियो भाणियव्वो । 'सातिय अधुवा य सेसाउ' त्ति सत्ता (अट्ठा) सीए वृत्तसेसाए सादि य अधुवो। मिच्छत्तस्स तु विजमाणसम्मत्तमीसगस्स पडिग्गहत्तंति ततो साद (य) ध्रुवत्वात सातियअधुवपडिग्गहता । एवमेगेगपगतीणं सङ्कमपडिग्गहाणं सादिआदिपरूवणा कता ॥ ७ ॥ (मलय ० ) - साम्प्रतं पतग्रहाणां साद्यनादिप्ररूपणामाह-'मिच्छत्त' त्ति - 'मिथ्यात्वजढाः' मिथ्यात्वरहिताः सर्वा अपि ध्रुवबन्धिन्यः प्रकृतयः - पञ्च ज्ञानावरणीयानि, नव दर्शनावरणीयानि, षोडश कषायाः, भयम्, जुगुप्सा, तैजससप्तकम्, वर्णादिविंशतिः, अगुरुलघु, उपघातम्, निर्माणम्, अन्तरायपञ्चकं चेति । एताः संक्रममधिकृत्य चतुर्विकल्पाः साद्यनादिधुवाध्रुवरूपचतुर्भेदा ज्ञेयाः । तथाहिएतासां सप्तषष्टिसंख्यानां ध्रुववन्धिनीनामात्मीयात्मीयबन्धव्यवच्छेदसमये पतद्ग्रहत्वं न भवति, न किमपि प्रकृत्यन्तरदलिकं तासु संक्रामतीत्यर्थः । पुनः स्वस्वबन्धहेतु संपर्क तो बन्धारम्भे सति पतद्ग्रहत्वं भवति, ततः सादिः, तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, धुवाधुवे अभव्यभव्यापेक्षया । 'साई' इत्यादि । शेषास्त्वध्रुववन्धिन्योऽष्टाशीतिसंख्याः प्रकृतयोऽध्रुवबन्धित्वादेव साद्यध्रुवपतद्ग्रहता भावनीया । मिथ्यात्वस्य पुनर्भुवबन्धित्वेऽपि यस्य सम्यक्त्वसम्यग्मिथ्यात्वे विद्येते स एव ते तत्र संक्रमयति नान्य संक्रमकरणे प्रकृतिसं क्रमः । ॥ ८ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy