SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः स्थितिबन्धप्ररू ॥१९९॥ पणा. PSGRUNG 2KGROHORORSMS षयाः, पुनः सर्वत्रापि-द्विस्थानादौ प्राप्यन्ते, द्विस्थानगतास्त्रिस्थानगताश्चतुःस्थानगताश्च रसा बन्धमाश्रित्य साकारोपयोगयोग्या उच्यन्त इत्यर्थः । अत्र त्रिस्थानकाश्चतुःस्थानकाच रसाः केवलसाकाराः, द्विस्थानकास्तूभयरूपा इति संज्ञाभेदः फलितः। इदानीं सर्वस्थितिस्थानानामल्पबहुत्वमाह-हेट्ठा' इत्यादि । परावर्तमानशुभप्रकृतीनां चतु:स्थानकरसे यद्यवमध्यं तस्मादधः स्थितिस्थानानि सर्वस्तोकानि । तेभ्यश्चतुःस्थानकरसयवमध्यस्यैवोपरिस्थितिस्थानानि संख्येयगुणानि। एवमध उपरि च त्रिस्थानेऽपि वक्तव्यम् । तथाहि-चतुःस्थानकरसयवमध्यस्योपरि यानि स्थितिस्थानानि तेभ्यः परावर्तमानशुभप्रकृतीनां त्रिस्थानकयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रिस्थानकरसयवमध्यस्योपरिस्थितिस्थानानि संख्येयगुणानिातेभ्योऽपि परावर्तमानशुभप्रकृतीनां द्विस्थानकरसयवमध्यादधः स्थितिस्थानानि एकान्तसाकारोपयोगयोग्यानि संख्येयगुणानि । तेभ्योऽपि द्विस्थानकरसयवमध्यादधः पाश्चात्येभ्य ऊर्ध्व स्थितिस्थानानि मिश्राणि साकारानाकारोपयोगयोग्यानि संख्येयगुणानि । तेभ्योऽपि द्विस्थानकरसयवमध्यस्योपरि मिश्राणि स्थितिस्थानानि | |संख्येयगुणानि । तेभ्योऽपि शुभानां परावर्तमानप्रकृतीनां जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽप्यशुभपरावर्तमानप्रकृतीनां जघन्यः | स्थितिबन्धो विशेषाधिको भवति । ततोऽप्यशुभपरावर्तमानप्रकृतीनामेव द्विस्थानकरसयवमध्यादधः एकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । ततस्तासामेव द्विस्थानकरसयवमध्यादधः पाश्चात्येभ्य ऊर्ध्व मिश्राणि स्थितिस्थानानि संख्येयगुणानि । | तेभ्योऽपि तासामेवाशुभपरावर्तमानप्रकृतीनां द्विस्थानकरसयवमध्यादुपरि मिश्राणि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽप्युपरि एकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि तासामेव परावर्तमानाशुभप्रकृतीनां त्रिस्थानकरसयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रिस्थानकरसयवमध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽप्यशुभपराव ||१९९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy