SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ HEROSCG SHREE णि संख्येयगुणानि । तेभ्योऽप्युपरि एकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि तासामेव परावतमानाशुभप्रकृतीनां त्रिस्थानकरसयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रिस्थानकरसयवमध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि । तेभ्यो प्यशुभपरावर्तमानप्रकृतीनामेव चतुःस्थानकरसयवमध्यादयः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि यवमध्यादुपरि डायस्थितिः संख्येयगुणा। यतः स्थितिस्थानादपवर्तनाकरणवशेनोत्कृष्टां स्थितिं याति तावती स्थितिर्डायस्थितिरिन्युच्यते। ततोऽपि सागरोपमाणामन्तःकोटीकोटी संख्येयगुणा। ततोऽपि परावर्तमानशुभप्रकृतीनां द्विस्थानकरसयवमध्यस्योपरि यानि मिश्राणि स्थितिस्थानानि तेषामुपर्येकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि परावर्तमानशुभप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यशुभपरावर्तमानप्रकृतीनां बद्धा डायस्थितिर्विशेषाधिका । यतः स्थितिस्थानात् मण्डूकप्लुतिन्यायेन डायां फालां-दत्वा या स्थितिर्वध्यते ततः प्रभृति तदन्ता तावती स्थितिबद्धा डायस्थितिरिहोच्यते । सा चोत्कर्षतोऽन्तःसागरोपमकोटीकोटयूना सकलकर्मस्थितिप्रमाणा वेदितव्या । तथाहि-अन्तःसागरोपमकोटीकोटीप्रमाणं स्थितिबन्धं कृत्वा पर्याप्तसंज्ञिपश्चेन्द्रिय उ-2 त्कृष्टां स्थिति बन्धातीति नान्यथा। ततोऽपि परावर्तमानाशुभप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिक इति ॥९६-९७-९८९९-१००॥ (उ०)-बन्धविशिष्टेषु रसभेदेषु संज्ञाविशेषमाइ-द्विविधानामपि शुभानामशुभानां वा परावर्त्तमानप्रकृतीनां रसा अनाकारप्रायोग्याः| वन्धमधिकृत्य तथाविधमन्दपरिणामयोग्यत्वादनाकारोपयोगयोग्यताव्यवहारविषया इत्यर्थः, नियमाद्विस्थानगता एव, नान्ये । तुरेवकाराशर्थः, 'तुः स्याद्भेदेऽवधारणे' इति नामानुशासनात् । साकाराः-बन्धमधिकृत्य तीव्रपरिणामयोग्यत्वेन साकारोपयोगयोग्यत्वव्यवहारवि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy