SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ १९५॥ Da द्विस्थानगतं रसं बध्नन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । द्वितीयस्यां स्थितौ विशेषाधिकाः । ततोऽपि तृतीयस्यां विशेषाधिकाः । एवं तावद्वाच्यं यावत्प्रभूतानि सागरोपमशतान्यतियन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वाच्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतानि यान्ति । परावर्तमान शुभप्रकृतीनां द्विस्थानगत रसबन्धकाचैवं तावद्वाच्या यावत्तासामुत्कृष्टा स्थितिः यावदुत्कृष्टस्थितिगतद्विस्थानरसबन्धका लभ्यन्त इत्यर्थः । 'असुभाणं' ति-अशुभपरावर्तमानप्रकृतीनां प्राग्दर्शितदिशाssaौ द्विस्थानगतरसबन्धका वाच्याः । ततस्त्रिस्थानगतरसबन्धकाः । ततश्चतुःस्थानगतरसबन्धकाः । ते च तावद्वाच्या यावदुत्कुष्टा स्थितिः । तथाहि अशुभपरावर्तमानप्रकृतीनां द्विस्थानरसबन्धकाः सन्तो ध्रुवप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततो द्वितीयस्यां स्थितौ विशेषाधिकाः । ततोऽपि तृतीयस्यां विशेषाधिकाः । एवं तावद्वाच्या यावत्प्रभूतानि सागरोपमशतानि गच्छन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वाच्या यावद्विशेषहानावपि प्रभृतानि सागरोपमशतानि यान्ति । तथाऽशुभपरावर्तमानप्रकृतीनां त्रिस्थान करसबन्धकाः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततो द्वितीयादिस्थितिषु यथोक्तावधि विशेषाधिका विशेषहीनाश्च प्राग्वद्वाच्याः । तथाऽशुभपरावर्तमानप्रकृतीनां चतुःस्थानगतरसबन्धकाः | सन्तो ध्रुवप्रकृतीनां स्वमायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततः प्रभृतानि सागरोपमशतानि यावद्विशेषवृद्धि र्वाच्या । ततः परं विशेषहानिरपि तावदेव वाच्या । अशुभपरावर्तमान प्रकृतीनामेवं चतुःस्थानगतरसबन्धकास्तावद्वाच्या यावत्तासामुत्कृष्टा स्थितिरुत्कृष्टस्थितिगतचतुः स्थानबन्धका इत्यर्थः ॥ ९४ ॥ इयाणि परंपरोवणिहिता Kaisa स्थिति बन्धप्ररूपणा. ॥ १९५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy