________________
कर्मप्रकृतिः
स्थितिबन्धप्ररूपणा.
॥१९४॥
परियत्तमाणिगाणं सुभाणं उक्कस्सिगा ठितित्ति । 'असुभाणं विट्ठाणे तिचउट्ठाणे य उक्कस्स'त्ति-परियत्तमाणिगाणं असुभपगतीणं बिट्ठाणियतिहाणियचउट्ठाणबन्धगा वत्तव्वा । णाणावरणीयस्स सट्ठाण जहण्णिगाए ठितीए जीवा थोवा, वितियाए जीवा विसेसाहिया, ततियाए विसेसाहिया, एवं विसेसाहिया विसेसाहिया जाव सागरोवमसतं ति । तेण परं विसेसहीणा जाव असुभपरियत्तमाणगाणं उक्कोसिया ठितित्ति । एयासु सेढीसु इमाए आगीए जीवा ठावेयव्वा । तत्थ इमा ठवणा। एषा स्थापना विधीयते ॥१४॥
(मलय०)-एवं ति-परावर्तमानानां शुभप्रकृतीनां त्रिस्थानगतं रसं निवतयन्तः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थिती | बन्धकत्वेन वर्तमाना जीवाः स्तोकाः। ततो द्वितीयस्यां स्थितौ विशेषाधिकाः। ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः। एवं तावद्वाच्यं | यावत्यभूतानि सागरोपमशतान्यतिक्रामन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वक्तव्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतानि गच्छन्ति । तथा परावर्तमानानां शुभप्रकृतीनां द्विस्थानगतं रसं निवर्तयन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन | वतमाना जीवाः स्तोकाः । ततो द्वितीयस्यां स्थितौ विशेषाधिकाः। ततोऽपि तृतीयस्यां विशेषाधिकाः । एवं तावद्वाच्यं यावत्प्रभृतानि | सागरोपमशतान्यतिक्रामन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वक्तव्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतानि प्रयान्ति। परावर्तमानशुभप्रकृतीनां च द्विस्थानगतरसबन्धका एवं तावद्वक्तव्या यावत्तासां परावर्तमानशुभप्रकृतीनामुत्कृष्टा स्थितिः, उत्कृष्टस्थितिगतद्विस्थानरसबन्धका इत्यर्थः । 'असुभाणं' इत्यादि अशुभपरावर्तमानप्रकृतीनां प्राग्दर्शितक्रमेण प्रथमतो द्विस्थानगतरसबन्धका वक्तव्याः । ततस्विस्थानगतरसबन्धका वक्तव्याः, ततश्चतुःस्थानगतरसबन्धकाः, ते च तावद्वक्तव्या यावदुत्कृष्टा स्थितिः । इयमत्र
DDNeCGS
॥१९४॥