SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ कषायमोहनीयस्य स्थितिबन्धाध्यवसायस्थानान्यसंख्येयगुणानि । तेभ्योऽपि दर्शनमोहनीयस्य स्थितिबन्धाध्यवसायस्थानान्यसंख्येय-15 गुणानि । उक्तः प्रकृतिसमुदाहारः। सम्प्रति स्थितिसमुदाहारे या प्राक् तीव्रमन्दता नोक्ता साऽभिधीयते-'अगंते' त्यादि । प्रथमायां स्थितो जघन्यं स्थितिबन्धाध्यवसायस्थानम् । ततस्तस्यामेवोत्कृष्टम् । ततो द्वितीयस्थिती जघन्यम् । एवमादि आचरमात्-उत्कृष्ट स्थितौ चम्मं स्थितिबन्धाध्यवसायस्थानं यावत्क्रमेणानन्तगुणतया वक्तव्यम् । तद्यथा-ज्ञानावरणीयस्य जघन्यस्थितौ जघन्यस्थितिबन्धाध्यवसायस्थानं सर्वमन्दानुभावम् । ततस्तस्यामेव जघन्यस्थितौ उत्कृष्टमध्यवसायस्थानमनन्तगुणम् । ततोऽपि द्वितियस्थितौ जघन्य स्थितिबन्धाध्यवसायस्थानमनन्तगुणम् । ततोऽपि तस्यामेव द्वितीयस्थितौ उत्कृष्टमनन्तगुणम् । एवं प्रतिस्थिति जघन्यमुत्कृष्टं च स्थितिबन्धाध्यवसायस्थानमनन्तनुणतया तावद्वक्तव्यं यावदुत्कृष्टायां स्थितौ चरमं स्थितिबन्धाध्यवसायस्थानमनन्तगुणम् ।। ८९ ॥ । ___ (उ०)-इदानीमल्पबहुत्वमाह-स्थितिदीर्घतया क्रमश:-क्रमेणाध्यवसायस्थानान्यसंख्येयगुणानि वक्तव्यानि । तथाहि-सर्वस्तो-४ कान्यायुषः स्थितिबन्धाध्यवसायस्थानानि । तेभ्यो नामगोत्रयोरसंख्येयगुणानि । नन्वायुषः स्थितिस्थानेषु यथोत्तरमसंख्येयगुणवृद्धिः, नामगोत्रयोस्तु विशेषाधिकेति कथमायुरपेक्षया नामगोत्रयोरसंख्येयगुणान्यध्यवसायस्थानानि ? इति चेत्, सत्यम् , आयुषो जघन्यस्थिती यावन्त्यध्यवसायस्थानानि तेभ्यो नामगोत्रयोर्जघन्यस्थितावतीव प्रभृतानि, नामगोत्रयोः स्थितिस्थानानि अपि चायुषः स्थितिस्थानापेक्ष | यातिप्रभूतानीति न कश्चिद्दोषः । नामगोत्रस्थितिबन्धाध्यवसायस्थानेभ्यो ज्ञानावरणदर्शनावरणवेदनीयानरायाणां स्थितिबन्धाध्यवसा| यस्थानान्यसंख्येयगुणानि, पल्योपमासंख्येयभागमात्रस्थित्यतिक्रमे द्विगुणवृद्धिलाभादेकस्यापि पल्योपमस्यान्तेऽसंख्येयगुणत्वसिद्धौ दशसागरोपमकोटीकोटयन्ते सुतरामसंख्येयगुणत्वसिद्धेः। तेभ्योपि कषायमोहनीयस्थितिबन्धाध्यवसायस्थानान्यसंख्येयगुणानि । ते *GORasincesONG
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy