________________
अनुभागबन्धप्ररूपणा.
| तेन तुल्यानुकुष्टिरभिधेया। तत्र सनाम्नो भावना क्रियते-त्रसनाम्न उत्कृष्टस्थितिबन्धारम्भे यान्यनुभागवन्धाध्यवसायस्थानानि | कर्मप्रकृतिः । तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि समयोनोत्कृष्टस्थितावनुवर्तन्तेऽन्यानि च भवन्ति । तानि च सर्वाण्यसंख्येयभागं | ॥१३६॥
मुक्त्वा द्वितीयस्थितिबन्धारम्भ प्राप्यन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गच्छन्ति ।
अत्रोत्कृष्टस्थितिसत्कानामनुभागवन्धाध्यवसायस्थानानामनुकृष्टिः समाप्तिमियति । ततोऽधस्तने च स्थितिस्थाने समयोनोत्कृष्टस्थिति१५ सत्कानां तेषामनुकृष्टिनिष्ठामुपैति । एवं तावद्वाच्यं यावदधस्तादष्टादशसागरोपमकोटीकोट्यस्तिष्ठन्ति । ततोऽष्टादशसागरोपमकोटाकोटी
चरमस्थितौ यान्यनुभागबन्धाध्यवसायस्थानानि तान्यधस्तनस्थितिबन्धारम्भे सर्वाण्यपि भवन्त्यन्यानि च । तत्स्थानभावीनि च सर्वाण्यपि ततोऽप्यधस्तने स्थितिस्थाने भवन्त्यन्यानि च । एवं तावद्वाच्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणाः स्थितयो गता भवन्ति । ततोऽनन्तरमधस्तने स्थितिस्थाने प्राक्तनानन्तरस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थाना| नामसंख्येयं भागं मुक्त्वा सर्वाण्यपि तान्यनुवर्तन्तेऽन्यानि च भवन्ति । ततोऽप्यधस्तने स्थितिबन्धे प्राक्तनानन्तरस्थितिस्थानसत्कानां | तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तान्यनुवर्तन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गच्छन्ति । अत्र जघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणतयाऽभिहितानां स्थितीनां प्रथमस्थितेर्यान्यनुभागवन्धाध्यवसायस्थानानि तेषामनुकृष्टिनिष्ठिता। ततोऽधस्तने स्थितिस्थाने द्वितीयस्थितिस्थानसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठामेति । एवं तावद्वाच्यं यावत्सर्वजघन्या स्थितिः । एवं बादरपर्याप्तप्रत्येकनाम्नामपि भावना कार्या ।। ६४ ॥
तणुतुल्ला तित्थयरे अणुकड्वी तिव्वमंदया एत्तो। सव्वपगईण नेया जहन्नयाई अणंतगुणा ॥६५॥
NGREDTDiarrestha
RSSINCCNG
| ॥१३६॥