SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः अनुभागवन्धपरूपणा. ॥१३५॥ RSADNECDOCccces अत्रोत्कृष्टस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । ततोऽधस्तने स्थितिस्थाने समयोनोत्कृष्टस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । ततोऽप्यधस्तने स्थितिस्थाने द्विसमयोनोत्कृष्टस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । एवमधोऽधोऽवतरणेन तावद्वाच्यं यावदधस्तादष्टादशसागरोपमकोटीकोटयस्तिष्ठन्ति । ततोऽष्टादशसागरोपमकोटीकोटीचरमस्थितौ यान्यनुभागबन्धाध्यवसायस्थानानि तान्यधस्तनस्थितिबन्धारम्भे सर्वाण्यपि भवन्ति, अन्यानि च । यानि चाधस्तनस्थितिबन्धारम्भेऽनुभागबन्धाध्यवसायस्थानानि तानि ततोऽप्यधस्तनस्थिविवन्धारभ्भे सर्वाण्यपि भवन्ति, अन्यानि च । एवं तावद्वाच्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणाः स्थितयो गता भवन्ति । ततोऽनन्तरमधस्तने स्थितिस्थाने प्राक्तनानन्तरस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामसंख्येयं भागं मुक्त्वा सर्वाण्यपि तान्यनुवर्तन्ते, अन्यानि च भवन्ति । ततोऽप्यधस्तनतरे स्थितिबन्धे प्राक्तनानन्तरस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामसंख्येयं भागं मुक्त्वा शेषाणि तानि सर्वाण्यप्यनुवर्तन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र जघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणतया अभिहितानां प्रथमस्थितेर्यान्यनुभागबन्धाध्यवसायस्थानानि तेषामनु| कृष्टिः परिसमाप्ता । ततोऽधस्तने स्थितिस्थाने द्वितीयस्थितिस्थानसत्कानुभागवन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठामेति । एवं | तावद्वाच्यं यावजघन्या स्थितिः । एवं बादरपर्याप्तप्रत्येकनाम्नामपि भावना कार्या ॥ ६४ ॥ (उ०)-अथ त्रसादिचतुष्कस्यानुकृष्टिमभिधित्सुराह-त्रसबादरपर्याप्तप्रत्येकनाम्नामनुकृष्टिः पराघाततुल्या-पराघातस्येव वक्तव्या । साचोपरितनात्स्थितिस्थानादारभ्याधोऽधोऽवतीर्य यावदधस्तादष्टादशकोटीकोट्यः सागरोपमाणां तिष्ठन्ति तावद्रष्टव्या । ततोऽधस्तात्सा ॥१३५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy