________________
RED
मेतदवसेयम् ? इति चेद् ,उच्यते-त्रसजीवाः स्तोकाः,सप्रायोग्याणि स्थानानि त्वसंग्व्येयगुणानि,ततो न सर्वाणि सजीवैः क्रमेण निरन्तरं बध्यमानानि प्राप्यन्ते किंतून्कर्पतोऽप्युक्तप्रमाणान्येवेति । एकैकमनुभागबन्धस्थानं नानाजीवर्बध्यमानं कियन्तं कालमविरहित | प्राप्यत इति प्रश्ने सन्युत्तरम्-अर्थकस्थाने एकेकस्मिन्ननुभागबन्धस्थाने नानारूपास्त्रसजीवा जघन्येनैकं समयं, उत्कर्षतः 'एवइकालं ति| एतावन्तं कालं पूर्वोक्तस्वरूपं आवलिकाऽसंख्येयभागमात्रं कालं यावदित्यर्थः निरन्तरं बन्धकत्वेन प्राप्यन्ते, परतोऽवश्यं तत्स्थान - बन्धशून्यं भवति । अयं भावः-एकैकं त्रसप्रायोग्यमनुभागबन्धस्थानमन्यान्यत्रसजीवनिरन्तरं बध्यमानं जघन्येनैकं समयं द्वौ वा समयौ प्राप्यते, उत्कर्षतस्त्वावलिकाऽसंख्येवभागमात्रम् । एकेन्द्रिया नानाविधाः स्थावरपायोग्ये एकैकस्मिन्ननुभागवन्धस्थाने नित्यवन्धकन्वेन प्राप्यन्ते, न कदापि तद् बन्धशून्यं भवतीत्यर्थः । एकैकं स्थावरप्रायोग्यमनुभागबन्धस्थानं स्थावरजीवैरन्यान्यवध्यमानं सर्वकालमवाप्यते, न तु कदापि बन्धरहितं भवतीति भावः ॥ ४५ ॥ । इयाणि वड्डिपरूवणाए दुवे अणुओगद्दाराणि-अणंतरोवणिहा परंपरोवणिहया य । | थोवा जहण्णट्ठाणे जा जवमझं विसेसतो अहिया । एत्तो हीणा उक्कस्सगंति जीवा अणंतरओ॥४६॥
(चू०) अणंतरोवणिहिताते जहण्णगे अणुभागबंधज्झवसाणठाणे थोवा जीवा, वितिते अणुभागबंधज्झव१. साणहाणे जीवा विसेसाहिता, एवं ततिते विसेसाहिता,एवं जाव जवमज्झं ति विसेसाहिता। 'एत्तो हीणा उक्कस्सगंति जीवा अणंतरो'त्ति-तेण परं विसेसहीणा विसेसहीणा जाव उक्कस्सगं अणुभागबंधज्ञवसाणट्ठाण॥४६॥
(मलय०)-तदेवं कृता नानाजीवानाश्रित्य कालप्ररूपणा । सम्प्रति वृद्धिप्ररूपणावसरः । तत्र च द्वे अनुयोगद्वारे । तद्यथा-अन