________________
| पंचसमतिगाणि दोवि तुल्लाणि असंखेजगुणाणि । ततो दोसु वि पासेसु चतुममतिगाणि दो वि तुल्लाणि असंखे| जगुणाणि उप्पिजत्ति। ततो उपि तिसमतिगाणि असंखेजगुणाणि । ततो दुममतिगाणि असंखेजगुणाणि ॥४०॥
(मलय० -तदेवं कृता समयप्ररूपणा । इदानीं यान्यनुभागबन्धस्थानानि अष्टसामयिकानि तानि यस्यां वृद्धौ हानी वा प्राप्यन्ते | तामाह-'दुसुत्ति । द्वयोर्विकल्पयोरनन्तगुणवृद्ध्यनन्तगुणहानिरूपयोर्यवमध्यं वर्तते । यवस्य मध्यमिव यवमध्यम्-अष्टमामयिकान्यनुभा| गबन्धस्थानानीत्यर्थः । तथा हि-यथा यवस्य मध्यं पृथुलमुभयतः पार्श्व च हीने हीनतरे तथाऽत्रापि कालतः पृथुलानि अष्टसामयिका- | नि अनुभागबन्धस्थानानि उभयपार्श्ववर्तीनि च सप्तसामयिकादीनि कालतो हीनानि हीनतराणि । ततोऽष्टसामयिकानि यवस्य मध्यमिव यवमध्यम् । तानि च प्रथमादष्टसामयिकात् स्थानादारभ्य सर्वाण्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि अनन्तगुणवृद्धौ अनन्तगुणहानी च प्राप्यन्ते । सप्तसामयिकानां हि चरमादनुभागबन्धस्थानात् प्रथममष्टसामयिकं स्थानमनन्तगुणवृद्धम् । ततः शेषाण्यपि तदपेक्षयाऽनन्तगुणवृद्धान्येव भवन्ति । तथाऽष्टसामयिकानां चरमादनुभागबन्धस्थानादुपरितनं सप्तसामयिकं स्थानमनन्तगुणवृद्धम् । ततस्तदपेक्षया | पाश्चात्यान्यष्टसामयिकान्यनुभागबन्धस्थानानि सर्वाण्यप्यनन्तगुणहीनान्येव भवन्ति । तदेवमष्टसामयिकान्यनन्तगुणवृद्धौ अनन्तगु-13 |णहानौ च प्राप्यन्ते । अष्टसामयिकानि चोपलक्षणम् , तेनाद्यानि चतुःसामयिकानि सर्वान्तिमानि च द्विसामयिकानि वर्जयित्वा शेषाणि | सर्वाण्यपि पञ्चसामयिकादीनि प्रत्येकमुक्तप्रकारेणानन्तगुणवृद्धावनन्तगुणहानौ च वेदितव्यानि । आद्यानि पुनः चतुःसामयिकान्यनन्तगुणहानावेव । तथाहि-पञ्चसामयिकमाद्यमनुभागधन्धस्थानं चतुःसामयिकचरमानुभागबन्धस्थानापेक्षयाऽनन्तगुणवृद्धम् । ततस्तदपे| क्षया पाश्चात्यानि चतुःसामयिकानि सर्वाण्यप्यनुभागबन्धस्थानान्यनन्तगुणहानावेव प्राप्यन्ते । द्विसामयिकानि त्वनन्तगुणवृद्धावेव ।
HERPRISESHIOSBOS: