SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ १०२ ॥ संख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनानि पुनः स्थानानि सप्तसामयिकानि, तान्यप्यसंख्येय लोकाकाशप्रदेशराशिप्रमा| णानि । तेभ्य उपरितनानि पदसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । एवं तावद्वाच्यं यावद्विसामयिकानि ॥ (उ०) - अथैतेष्वनुभागबन्धस्थानेषु बन्धमाश्रित्यावस्थाने कालमानं चिन्तयन्नाह - चत्वार आदिर्यस्याः सा चतुरादिवृद्धिः । सा चावस्थितिकालनियामकानां समयानां तावद् द्रष्टव्या यावत्समयाष्टकम् । तत ऊर्ध्वं समयानां हानिर्वाच्या, सा च तावद्यावद् द्विकम् । सा च वृद्धिर्हानिर्वा चतुरादिका 'स्थानानाम् ' - अनुभागबन्धस्थानानामुत्कर्षतः, जघन्यतस्तु सर्वत्र समयो द्रष्टव्यः । इयमत्र भावना| यान्यनुभागबन्धस्थानानि जीवाः पुनः पुनस्तान्येव चतुरः समयान् बध्नन्ति तानि चतुःसामयिकानि तानि च प्रथमादनुभागस्था| नादारभ्यासंख्येयलोकाकाशप्रदेशप्रमाणानि । तेभ्य उपरितनानि स्थानानि पञ्च सामयिकानि, तान्यप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि । | तेभ्य उपरितनानि स्थानानि पसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशप्रमाणानि । तेभ्य उपरितनानि सप्तसामयिकानि, तान्य| प्यसंख्येय लोकाकाशप्रदेशप्रमाणानि । तेभ्य उपरितनान्यष्टसामयिकानि, तान्यप्य संख्येयलोकाकाशप्रदेशप्रमाणानि । तेभ्यः पराणि स| प्तसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशप्रमाणानि । तेभ्यः पराणि षट्सामयिकानि, तान्यप्य संख्येयलोकाकाशप्रदेशप्रमाणानि । एवं तावद्वाच्यं यावद् द्विसामयिकानि ।। ३९ ।। aa अनुभागबन्धप्ररूपणा. ॥ १०२ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy