SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ||१०१॥ माणुष्वनुभागस्य षड्विधामुक्तस्वरूपां वृद्धि हानि वा कुर्वन्ति । तस्मात् कां वृद्धि कियन्तं कालं यावत् कुर्वन्तीत्यवश्यं कालप्रमाणमभिधानीयम् । तत्र 'द्वयोः'-वृद्धिहान्योः 'अन्तिमयो'-अनन्तगुणवृद्ध्यनन्तगुणहानिरूपयोरन्तर्मुहूर्तमवगन्तव्यम् । किमुक्तं भवति ? अन्त-२ अनुभाग| मुहूर्त कालं यावनिरन्तरं जीवाः परिणामविशेषतः प्रतिसमयमनुभागान् पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धाननन्तगुणहीनान् वा बध्नन्ति । बन्धपरू पणा. तथा शेषाणां पश्चानामाद्यानां वृद्धीनां हानीनां वा आवलिकाया असंख्येयभागमात्रः कालो वेदितव्यः । इदमुक्तं भवति-अनुभागानामाद्याः पञ्च वृद्धीर्हानीर्वा आवलिकाया असंख्येयभागमात्रं कालं यावनिरन्तरं जीवाः परिणामविशेषतः कुर्वन्ति । एषा च हानिद्धिकालप्ररूपणोत्कर्षतोऽवगन्तब्या । जघन्यतस्तु सर्वा अपि वृद्धयो हानयो वा एकं द्वौ वा समयौ यावदवगन्तव्याः ॥ ३८॥ (उ०)-अथ वृद्धिस्थानप्ररूपणा क्रियते-इह जीवानां परिणामविशेषेण कर्मपरमाणुष्वनुभागस्योक्तस्वरूपं वृद्धिहानिषद्कं भवति। | तत्र का वृद्धिानिर्वा कियन्तं कालं भवतीत्यवश्यं निरूप्यं, तस्मात्तनिरूप्यते-तत्र 'द्वयोः'-वृद्धिहान्योः-'अन्तिमयोः'-अनन्तगुणवृद्वयनन्तगुणहानिरूपयोरन्तर्मुहूर्तमवगन्तव्यम् । अन्तर्मुहूर्त कालं यावनिरन्तरं जीवाः पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धाननन्तगुणहीनान् वाऽनुभागान् बध्नन्तीत्यर्थः । तथा शेषाणां पञ्चानामाद्यानां वृद्धीनां हानीनां वाऽऽवलिकाया असंख्येयभागमात्रः कालो ज्ञातव्यः, निरन्तरमनुभागानामाद्याः पञ्च वृद्धीर्हानीर्वाऽऽवलिकाऽसंख्येयभागमात्रमेव कालं जीवाः कुर्वन्तीत्यर्थः । एषा च हानिवृद्धिकालप्ररूपणोत्कर्षतोऽवसेया । जघन्यतस्त्वेकं द्वौ वा समयौ सर्वा अपि भवन्तीत्यवसेयम् ॥ ३८ ॥ इदाणिं एतेसु अज्झवसाणट्ठाणेसु अवट्ठाणकालो भण्णति तेण समयपरूवणा भण्णतिचतुराई जाव अट्ठगमेत्तो जावं दुगं ति समयाणं । ठाणाणं उक्कोसो जहण्णओ सव्वहिं समओ ।३९। 19 DIDIODICICROSONG
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy