________________
&
अनुभागबन्धग्ररूपणा.
तीति न कश्चिद्विरोधः। बाहुल्येन सर्वत्रापि संभवात् सर्वजीवप्रमाणेन राशिना भागो व्हियत इति वचनाच अनन्तगुणवृद्धात् स्थानादर्वाकर्मप्रकृतिः N/ गपि पूर्वस्थानेभ्य उत्तरोत्तरस्थानानां सर्वस्तोकानन्तभागाधिकत्वमवसेयम् । यद्यपि च पूर्वपूर्वस्थानापेक्षयोत्तरोत्तरस्थानेषु किश्चिद्धीन॥९६॥
| हीनतराः परमाणवः प्राप्यन्ते तथापि स्तोकस्तोकतरैः परमाणुभिर्वर्गणादीनां संभवादुक्तस्वरूपस्पर्धकबाहुल्यं न विरुध्यते । तदेवमुक्ता षट्स्थानकमरूपणा । साम्प्रतमधस्तनस्थानप्ररूपणा क्रियते-तत्र प्रथमादसंख्येयभागवृद्धास्थानादधः कियन्त्यनुभागबन्धस्थानान्यनन्त| भागवृद्धानि? उच्यते-कण्डकमात्राणि । तथा प्रथमात्संख्येयभागवृद्धास्थानात अधः कियन्त्यसंख्येयभागवृद्धानि स्थानानि ? उच्यतेकण्डकमात्राणि । तथा प्रथमात्संख्येयगुणवृद्धास्थानादधः कियन्ति संख्येयभागवृद्धानि स्थानानि ? उच्यते-कण्डकमात्राणि । तथा प्रथमादसंख्येयगुणवृद्धात् स्थानादधः कियन्ति संख्येयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकमात्राणि । तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्त्यसंख्येयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकमात्राणि । इयमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण मार्गणा । इदानीमेकान्तरिता मार्गणा क्रियते-तत्र प्रथमान्संख्येयभागवृद्धात स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः। कण्डकं च । तथा प्रथमात्संख्येयगुणवृद्धात् स्थानादधः कियन्त्यसंख्येयभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । तथा प्रथमादसंख्येयगुणवृद्धात् स्थानादधः कियन्ति संख्येयभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । तथा प्रथमादनन्तगुणवृद्धात स्थानादधः कियन्ति संख्येयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । एवमुक्तपकारेण द्वयन्तरिता व्यन्तरिता चतुरन्तरिता च मार्गणा स्वधिया परिभावनीया ।। ३७ ।। (उ०)--अस्मिश्च पदस्थानके त्रिविधा भागवृद्विरुक्ता-अनन्तभागवृद्धिरसंख्येयभागवृद्धिः संख्येयभागवृद्धिश्चेति । त्रिविधा च गुण
KGEE