________________
22
202
स्यशः कीर्त्ययशः कीत्येकतरनिर्माणलक्षणा मनुष्यद्विकपञ्चेन्द्रियजात्यौदा रिकद्विकतैजस कार्मणाद्यसंस्थानसंहननवर्ण चतुष्कागुरुलघूपधानपराघातोच्छ्वासप्रशस्तविहायोगतित्र सचतुष्कसुभगत्रिकस्थिरास्थिरैकतरशुभाशुभैकतरयशः कीर्त्य यशः कीर्त्येकतरनिर्माणलक्षणा वा एकोनत्रिंशत्प्रकृतीर्बध्नन्नुत्कृष्टयोग उत्कृष्टप्रदेशबन्धकः, त्रिंशद्धन्यादौ भागबाहुल्यात्तदग्रहणम् । निद्राप्रचलाहास्यरत्यरतिभयशोकजुगुप्सातीकरनामप्रकृतीनां सम्यग्दृष्टिरुत्कृष्टयोगस्तथा । तत्र निद्राप्रचलयोरविरतसम्यग्दृष्ट्यादयोऽपूर्वकरणान्ताः सप्तविधबन्धकोत्कृष्टयोगा एकं द्वौ वा समयात्कष्टप्रदेशबन्धकाः, आयुर्द्रव्यभागोऽधिको लभ्यत इति सप्तविधबन्धकग्रहणं, स्त्यानर्द्धित्रिकभागलाभाय सम्यग्दृष्टिग्रहणम्, मिश्रस्त्वेतदबन्धकत्वेऽप्युत्कृष्टयोगाभावान्नेहाधिकृतः । हास्यरत्यरतिशोकभय जुगुप्सानां त्वविरताद्यपूर्वकरणान्ता ये ये उत्कृयोगास्ते ते उत्कृष्टप्रदेशबन्धकाः, मिथ्यात्वानन्तानुबन्ध्यादिभागलाभाय सम्यग्दृष्टिग्रहणम् । तीर्थकर नाम्नोऽप्येत एव देवगतिप्रायोग्यामष्टाविंशतिं तीर्थकरनामसहितां बध्नन्तः सप्तविधमूलप्रकृतिबन्धकाः तथा, त्रिंशदेकत्रिंशद्रन्धौ तु भागबाहुल्याच्यज्येते । आहारकद्विकस्याप्रमत्तापूर्वकरणौ केवलस्थिरशुभयशः कीर्तिसहितमागुक्ताष्टाविंशतावाहारकद्विकप्रक्षेपेण त्रिंशन्नामोत्तरप्रकृतिबन्धकौ तथा, तीर्थकस्नामसहिते एकत्रिंशद्धन्धेऽप्येतद्वध्यते, किं तु तत्र भाग बाहुल्यात्तस्येहाग्रहणम् । शेषाणां स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबन्धिस्त्री क्लीववेद नारकतिर्यगायुर्नरकद्विकतिर्यग्विकमनुजद्विकौदा रिकद्विकपञ्चेन्द्रियजातितैजस कार्मणवर्ण चतुष्कागुरुलघुपराघातोपघातोच्छूवासत्रसचतुष्कस्थिरास्थिरशुभाशुभयशः कीर्तिनिर्माणाद्यजातिचतुष्टयप्रथमवर्ज संस्थानसंहननातपोद्योताप्रशस्तविहायोगतिस्थावरचतुष्कदुभगत्रिकीचैर्मोनलक्षणानां पट्षष्टिप्रकृतीनां मिथ्यादृष्टिरुत्कृष्टप्रदेशबन्धकः । तथाहि - मनुष्यद्विकादिपञ्चविंशतिप्रकृतीविना शेषाः सम्यग्दृष्टेरिह बन्धः एव नायान्ति, सासादनस्तु काश्चिद्रघ्नाति परं तस्योत्कृष्टयोगो न लभ्यते, अत एता एकचत्वारिंशन्मिथ्यादृष्टि