________________
कर्मप्रकृतिः
।। ७७॥
SSOSORSHDSES
सर्वस्तोकं सुरभिगन्धनाम्नः, ततो विशेषाधिक दुरभिगन्धनाम्नः । तथा रसनाम्नि सर्वस्तोकं कटुरसनाम्नः, ततस्तिक्तरसनाम्नो | विशेषाधिकम् , ततः कषायरसनाम्नो विशेषाधिकम् , ततः अम्लरसनाम्नो विशेषाधिकम्, ततोऽपि मधुररसनाम्नो विशेषाधिकम् । प्रदेशबन्ध तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशाग्रम् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो मृदुलघुस्पर्शनाम्नो
दलिकाना
मल्पबहुविशेषाधिकम् , स्वस्थाने तु तयोः द्वयोरपि परस्परं तुल्यम् , ततो रूक्षशीतस्पर्शनाम्नोविशेषाधिकम् , स्वस्थाने तु तयो योरपि परस्परं ||
त्वम् । तुल्यम्, ततः स्निग्धोष्णस्पर्शनाम्नोविशेषाधिकम् , स्वस्थाने तु तयोरपि द्वयोः परस्परं तुल्यम् । तथानुपूर्वीनाम्नि सर्वस्तोकं प्रदेशाग्रं ) देवगतिनरकगत्यानुपूर्योः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो मनुजगत्यानुपूर्व्या विशेषाधिकम् , ततस्तिर्यगानुपूर्व्या विशेषा| धिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं त्रसनानः, ततो विशेषाधिकं स्थावरनाम्नः । तथा सर्वस्तोकं प्रदेशाग्रं पर्याप्तनाम्नः, ततो | विशेषाधिकमपर्याप्तनाम्नः, एवं स्थिरास्थिरयोः, शुभाशुभयोः, सुभगदुर्भगयोः, आदेयानादेययोः, सूक्ष्मबादरयोः, प्रत्येकसाधारणयोर्वाच्यम् , तथा सर्वस्तोकमयशःकीर्तिनाम्नः प्रदेशाग्रम्, ततो यशःकीर्तिनाम्नः संख्येयगुणम् । शेषाणामातपोद्योतप्रशस्ताप्रशस्तविहायोगतिसुस्वरदुःखराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रम् । निर्माणोच्छ्वासपराघातोपघातागुरुलघुतीर्थकराणां त्वल्पबहुत्वं नास्ति, | यत इदमल्पबहुत्वं सजातीयप्रकृत्यपेक्षया, यथा कृष्णादिवर्णनाम्नः शेषवर्णापेक्षम्, प्रतिपक्षप्रकृत्यपेक्षया वा यथा सुभगदुर्भगयोः, न चैताः परस्परं सजातीयाः, अभिन्नैकमूलपिण्डप्रकृत्यभावात् , नापि विरुद्धा युगपदपि वन्धसम्भवात् । तथा गोत्रे सर्वस्तोकमुस्कृष्टपदे प्रदेशाग्रं नीचैर्गोत्रस्य, ततो विशेषाधिकमुच्चर्गोत्रस्य । तथाऽन्तराये सर्वस्तोकं दानान्तरायस्य, ततो लाभान्तरायस्य विशेषाधिकम् , ततो भोगान्तरायस्य विशेषाधिकम् , तत उपभोगान्तरायस्य विशेषाधिकम् , ततो वीर्यान्तरायस्य विशेषाधिकम् ।
पक्षया वा यथा मात्र सर्वस्तोकमु-१४॥७७ ॥