SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ నా ముపుతుండుడు परस्परं तुल्यम् , तत एकेन्द्रियजातेर्विशेषाधिकम् । तथा शरीरनाम्नि सर्वस्तोकमुत्कृष्टपद प्रदेशाग्रमाहारकशरीरस्य, ततो वक्रियशरीरनाम्नो विशेषाधिकम् , तत औदारिकशरीरनाम्नो विशेषाधिकम् , ततस्तैजसशरीरनाम्नो विशेषाधिकम् , ततोऽपि कार्मणशरीरनाम्नो विशेषाधिकम् । एवं संघानननाम्न्यपि द्रष्टव्यम् । तथा बन्धननाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकाहारकबन्धननाम्नः, तत आहारकतैजसनाम्नो विशेषाधिकम् , तत आहाग्ककार्मणबन्धननाम्नो विशेषाधिकम् , तत आहारकतैजसकार्मणबन्धननाम्नो विशेपा|धिकम् , ततो वैक्रियवैक्रियशरीरबन्धननाम्नो विशेषाधिकम् , ततो वैक्रियतैजसबन्धननाम्नो विशेषाधिकम् , ततो वैक्रियकार्मणबन्धननाम्नो विशेषाधिकम् , ततो वैक्रियतैजसकामगबन्धननाम्नो विशेषाधिकम् , तत औदारिकौदारिकबन्धननाम्नो विशेषाधिकम् , तत औदारिकतैजसबन्धननाम्नो विशेषाधिकम् , तत औदारिककार्मणबन्धननाम्नो विशेषाधिकम् , ततोऽप्यौदारिकतैजसकार्मणबन्धननाम्नी | विशेषाधिकम् , ततस्तैजसतैजसबन्धननाम्नो विशेषाधिकम् , ततस्तैजसकार्मणबन्धननाम्नो विशेषाधिकम् , ततः कार्मणकार्मणबन्धन नाम्नो विशेषाधिकम् । तथा संस्थाननाम्नि संस्थानानामाद्यन्तवर्जानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकम् , स्वस्थाने तु तेषां | परम्परं तुल्यम् । ततः समचतुरस्रसंस्थानस्य विशेषाधिकम् । ततोऽपि हुण्डसंस्थानस्य विशेषाधिकम् । तथाङ्गोपाङ्गनाम्नि सर्वस्तोकमस्कृष्टपदे प्रदेशाग्रमाहारकाङ्गोपाङ्गनाम्नः ततो वैक्रियाङ्गोपांगनाम्नो विशेषाधिकम् , ततोऽप्यौदारिकाङ्गोपाङ्गनाम्नो विशेषाधिकम् । तथा संहनननाम्नि सर्वस्तोकमाद्यानां पश्चानां संहननानामुत्कृष्टपदे प्रदेशाग्रम् , स्वस्थाने तु तेषां परस्परं तुल्यम् , ततः सेवातसंहननस्य विशेषाधिकम् । तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाधे कृष्णवर्णनाम्नः , ततो नीलवर्णनाम्नो विशेषाधिकम् , ततो लोहितवर्णनाम्नो विशेषाधिकम् , ततो हारिद्रवर्णनाम्नो विशेषाधिकम् , ततोऽपि शुक्लवर्णनाम्नो विशेषाधिकम् । तथा गन्धनाम्नि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy