SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ विभाग ॥७१॥ त्यादि। शेषस्य च मूलभागस्य द्वौ भागौ क्रियेते, एकः कषायमोहनीयस्य, अपरो नोकषायमोहनीयस्य। तत्र कषायमोहनीयस्य भागः पुन-1 कर्मप्रकृतिः चतुर्धा क्रियते, ते च चत्वारोऽपि भागाः संज्वलनक्रोधादिभ्यो दीयन्ते । नोकषायमोहनीयस्य तु भागः पञ्चधा क्रियते, ते च पश्चापि ६ प्रदेशबन्धे | भागा यथाक्रमं त्रयाणां वेदानामन्यतमस्मै वेदाय बध्यमानाय हास्यरतियुगलारतिशोकयुगलयोरन्यतरस्मै युगलाय भयजुगुप्साभ्यां च | दीयन्ते, नान्येभ्यः,बन्धाभवात् , न हि नवापि नोकषाया युगपद् बन्धमायान्ति किन्तु यथोक्ताः पञ्चैव । तथा वेदनीयायुगोत्रेषु यो प्ररूपणा. - मूलभाग आभजति स एतेषामेव एकैकस्याः प्रकृतेर्बध्यमानाया ढौकते, द्विप्रभृतीनाममीषां युगपद्वन्धाभावात् ॥२६॥ (उ०)-मोहे-मोहनीये स्थित्यनुसारेण यो मूलभाग आभजति तस्य सर्वघात्योऽनन्ततमो भागो द्विधा क्रियते तदर्ध दर्शनमोहनीयस्याधं च चारित्रमोहनीयस्यायेति । तत्र दर्शनमोहनीयसत्कं समग्रमप्यध मिथ्यात्वमोहनीयस्य दीयते । चारित्रमोहनीयसत्कं त्वधं द्वादशधा कृत्वाऽऽद्यद्वादशकषायेभ्यो दीयते । ततः शेषदलिकं द्विधा कृत्वा बध्यमानानां कषायनोकषायप्रकृतीनां दीयते । तत्रैको 6 भागः कषायमोहनीयस्य, एकश्च नोकषायमोहनीयस्य । तत्र कषायमोहनीयस्य भागः पुनश्चतुर्धा क्रियते, ते च चत्वारोऽपि भागाः संज्वलनक्रोधादिभ्यो दीयन्ते । नोकषायमोहनीयस्य तु भागः पञ्चधा क्रियते, ते च पश्चापि भागा यथाक्रमं त्रयाणां वेदानामन्यत| मस्मै वेदाय बध्यमानाय हास्यरत्यरतिशोकयोरन्यतरस्मै युगलाय भयजुगुप्साभ्यां च दीयते, नान्येभ्यः, बन्धाभावात्, नोकषायेषु मध्ये यथोक्तानामेव युगपद्धन्धसंभवात् । तथा वेदनीयायुर्गोत्रेषु यो मूलभाग आभजति स एषां स्वस्वैकप्रकृतेर्बध्यमानाया उपढौकते, याद्यानामेतत्प्रकृतीनां युगपदबन्धात् ।। २६॥ || पिंडपगतीसु बझंतिगाण वन्नरसगंधफासाणं । सव्वासिं संघाए तणुम्मि य तिगे चउक्के वा ॥२७॥ ॥७१ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy