________________
संपादकीया प्रशस्तिः। आसीजगति विख्यातो, विजयानन्दमूरिराट् । कुमतकण्टकोद्धारैः, शासनं योऽत्यदीपयत् ॥१॥ तस्य पट्टधरो जातः, मरिश्रीकमलप्रभुः। दम्भिदम्भविनाशेन, योऽरक्षजिनशासनम् ॥२॥ सर्वागमरहस्यज्ञा दैवज्ञा दानसूरीशाः । शास्त्राज्ञास्थापकत्वेन तेषां पट्टमशोभि यैः ॥३॥ तत्पट्टप्रोदिताचार्य-विजयप्रेममरिणा । संशोधितमिदं शास्त्रं क्षाम्यन्तु स्खलितं बुधाः ॥४॥ जम्बूविजयस्तच्छिष्यो वाचकपदभूषितः। निजगुरुप्रसादेन साहाय्यं सुष्ठु दत्तवान् ॥५॥ वह्वयङ्कनिधिभूवर्षे पश्चशिष्यसमन्वितः। सागरसङ्घविज्ञप्तः *स्वजनुर्नगरीस्थितः ॥६॥
ग्रन्थसमाप्तिहर्षेण प्रशस्ति कृतवानिमाम् । आदिजिनकथायुक्तं यथा पण्णत्तिवाचनाम् ॥७॥ युग्मम् । * दर्भावती-'डभोई इति प्रसिद्धनामा ।