SearchBrowseAboutContactDonate
Page Preview
Page 1456
Loading...
Download File
Download File
Page Text
________________ 12 शत् । एतेषु प्रत्येकं द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एवं तिरश्चोऽपि, नवरं तस्यैकत्रिंशदुदयोऽपि वाच्यः, तत्रापि चैते एव द्वे सत्तास्थाने । एकोनत्रिंशद्वन्धो मनुष्यस्य देशविरतस्य, तस्योदयस्थानान्यननरोक्तान्येव पञ्च, तेषु प्रत्येकं द्वे द्वे सत्तास्थाने-त्रिन-1 वतिरेकोननवतिश्च । तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिंशदन्तेषूदयेषु चत्वारि चत्वारि सत्तास्थानानि, एकत्रिंशदुदये च द्वे इति सर्वसङ्खथया द्वाविंशतिः। अथ प्रमत्तसंयतस्य बन्धादिस्थानान्यभिधेयानि-तत्र प्रमत्तसंयतस्य द्वे बन्धस्थाने-अष्टाविंशतिरेकोनत्रिंशच, ते च देशविस्तस्येव भावनीये । पञ्चोदयस्थानानि, तद्यथा-पश्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशत् । एतानि सर्वाण्यप्याहारकसंयतस्य | वैक्रियसंयतस्य वा ज्ञातव्यानि । त्रिंशत्स्वभावस्थसंयतस्यापि । तत्र वैक्रियसंयतानामाहारकसंयतानां च पञ्चविंशति पप्तविंशत्युदययोः प्रत्येकमेकैको भङ्गः, अष्टाविंशतावेकोनविंशति च द्वौ द्वौ, त्रिंशति चैकः, सर्वसङ्ख्यया चतुर्दश । त्रिंशदुदयः स्वभावस्थस्यापीति, तत्र चतुश्चत्वारिंशं शतं भङ्गानां १४४ । तच्च देशविरतस्येव भावनीयम् । सर्वसङ्ख्ययाऽष्टपश्चाशं शतं १५८ । चत्वारि सत्तास्थानानि-बिनपतिविनवतिरेकोननवतिरष्टाशीतिश्च । सम्प्रति संवेध उच्यते-अष्टाविंशतिबन्धकस्य पश्चखप्युदयस्थानेषु प्रत्येकं द्विनवत्यष्टाशीत्यात्मके दे द्वे सत्तास्थाने । तत्राहारकसंयतस्य विनवतिरेव, आहारकसत्कर्मा ह्याहारकशरीरमुत्पादयतीति, वैक्रियसंयतस्य तु द्वे अपि । तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बध्नातीति त्रिनवतिरेकोननवतिश्च न प्राप्यते । एकोनत्रिंशद्वन्धकस्य पञ्चस्वप्युदयस्थानेषु प्रत्येक द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च। तत्राहारकसंयतस्य विनवतिरेव, तस्यैकोनत्रिंशद्वन्धकस्य नियमतस्तीर्थकराहारकसद्| भावात् , वैक्रियसंयतस्य तु द्वे अपि । तदेवं प्रमत्ततंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि प्राप्यन्ते इति TREATMecca
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy