SearchBrowseAboutContactDonate
Page Preview
Page 1433
Loading...
Download File
Download File
Page Text
________________ नाम्नः बन्धोदय| सत्तास्थानानांसंवेधः इति तत्र पञ्चविंशत्याधुदयस्थानाप्राप्तिः । अष्टौ सत्तांशाः-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः पट्सप्ततिः पञ्चसकर्मप्रकृतिः | प्ततिश्च । तत्राद्यानि चत्वारि सत्तास्थानानि उपशमश्रेण्यां, क्षपकश्रेण्यामपि तावद्यावदनिवृत्तिबादरगुणस्थानं गत्वा त्रयोदश नामानि न ॥१३६॥ | क्षिप्यन्ते, क्षीणेषु च त्रयोदशनामसु नानाजीवापेक्षयोपरितनानि चत्वारि सूक्ष्मसंपरायं यावल्लभ्यन्ते । परतो बन्धाभावे दशोदयस्थानानि, तद्यथा-विंशतिरेकविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशन्नवाष्टौ चेति । तत्र विंशत्येकविंशती यथासंख्यं तीर्थकृदतीर्थकृतोः सयोगिकेवलिनोः कार्मणकाययोगे वर्तमानयोः, षड्विंशतिसप्तविंशती तयोरेवौदारिकमिश्रकाययोगे वर्तमानयोः, अतीर्थकृतः स्वभावस्थस्य त्रिंशत् , तस्यैव स्वरे निरुद्ध एकोनत्रिंशत् , तस्यैवोच्छ्वासेऽपिं निरुद्धेऽष्टाविंशतिः, तीर्थकृतः | स्वभावस्थस्यैकत्रिंशत, तस्यैव खरे निरुद्धे त्रिंशत्, उच्छ्वासेऽपि निरुद्धे एकोनत्रिंशत्, अयोगिनस्तीर्थकृतो नवोदयोऽतीर्थकृतोऽष्टोदयः । दश सत्तास्थानानि, तद्यथा-त्रिनवतिढिनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिर्नवाष्टौ च । विंशत्युदये द्वे | | सत्तास्थाने-एकोनाशीतिः पश्चसप्ततिश्च । एवं पद्विशत्युदयेऽष्टाविंशत्युदयेऽपि च द्रष्टव्यम् । एकविंशत्युदये अशीतिषट्सप्ततिलक्षणे द्वे सत्तास्थाने, एवं सप्तविंशत्युदयेऽपि । एकोनविंशति चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः पट्सप्ततिरेकोनाशीतिः पश्चसप्ततिश्च । १ यत एकोनत्रिंशत्तीर्थकरस्यातीर्थकरस्य च स्यात् । तत्राद्ये द्वे तीर्थकरमधिकृत्य, अन्त्ये च द्वे अतीर्थकरमधिकृत्य । त्रिंशदुदयेऽष्टौ सत्ताI स्थानानि, तद्यथा-विनवतिविनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वायुपशान्त कषायस्य, अशीतिः क्षीणकषायस्य सयोगिकेवलिनो वा तीर्थकृत आहारकसत्कर्मणोऽतीर्थकृतस्तु तादृशस्यैकोनाशीतिः। आहारकच| तुष्टयरहितयोस्तीर्थकदतीर्थकृतोः क्षीणमोहयोः सयोगिकेवलिनोर्वा षट्सप्ततिपञ्चसप्तती। एकत्रिंशदुदयेऽशीतिपट्सप्तत्यात्मके द्वे ॥१३६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy