SearchBrowseAboutContactDonate
Page Preview
Page 1426
Loading...
Download File
Download File
Page Text
________________ चत्वारि क्षपकश्रेण्यां प्रकृतित्रयोदशकक्षये । उपशान्तमोहे तु प्रथमसत्तास्थानचतुष्कमेव । क्षीणमोहे सयोगिकेवलिनि च द्वितीयसत्तास्थानचतुष्कमेव । अयोगिकेवलिनि च षट् सत्तास्थानानि द्वितीयसत्तास्थान चतुष्कं नवाष्टौ च तत्र द्वितीयसत्तास्थनचतुष्कं नानाजीवा|पेक्षया द्विचरमसमयं यावत्, चरमसमये तु तीर्थकरातीर्थकरावधिकृत्य नवाष्टाविति । तदेवं गुणस्थानेष्वभिहितानि सत्तास्थानानि । अथ बन्धोदय सत्तास्थानानां परस्परं संवेध उच्यते तत्र त्रयोविंशतिबन्धे पश्चविंशतिबन्धे पविंशतिबन्धे च प्रत्येकं नव नवोदयस्थानानि पञ्च पञ्च सत्तास्थानानि । तत्र त्रयोविंशतिबन्धोऽपर्याप्त केन्द्रियप्रायोग्य एव तद्वन्यका केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिय तिर्यक्पञ्चेन्द्रिया मनुष्याश्च । एतेषां त्रयोविंशतिबन्धकानां यथायोगं सामान्येन नवोदयस्थानानि तद्यथा - एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेको नत्रिंशत्रिंशदेकत्रिंशत् । तत्रैकविंशत्युदयोऽपान्तरालगतौ वर्त्तमानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां ज्ञेयः, तेषामपर्याप्त कै केन्द्रियप्रायोग्यबन्धसंभवात् । चतुर्विंशत्युदयोऽपर्याप्तपर्याप्तै केन्द्रि याणां, अन्यत्र चतुर्विंशत्युदयस्याप्राप्यमाणत्वात् । पञ्चविंशत्युदयः पर्याप्तै केन्द्रियाणां वैक्रियतिर्यङ्मनुष्याणां च मिथ्यादृष्टीनाम् । षड्विंशत्युदयः पर्या मै केन्द्रियाणां पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनाम् । सप्तविंशत्युदयः पर्याप्तै केन्द्रियाणां | वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनाम् । अष्टाविंशत्ये कोनत्रिंशत्रिंशदुदयाः पर्याप्तद्वित्रिचतुरिन्द्रियाणां तिर्यक्पञ्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनाम् । एकत्रिंशदुदयो विकलेन्द्रियतिर्यक् पञ्चेन्द्रियाणां मिथ्यादृष्टीनाम् । उक्तशेषास्त्रयो। शतिबन्धका न भवन्ति । तेषां त्रयोविंशतिबन्धकानां सामान्येन पञ्च सत्तास्थानानि, तद्यथा - द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्रैकविंशत्युदये वर्त्तमानानां सर्वेषामपि पञ्चापि सत्तास्थानानि । नवरं मनुष्याणामष्टसप्ततिवर्जानि चत्वारि, यतोऽष्टसप्ततिर्मनुष्यद्विके उद्वलिते प्राप्यते, न च मनुष्याणां तदु
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy