SearchBrowseAboutContactDonate
Page Preview
Page 1406
Loading...
Download File
Download File
Page Text
________________ ek वैक्रियं कुर्वतः प्राणपानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते प्रागुक्ता पञ्चविंशतिः षड्विंशतिर्भवति, तत्र च प्राग्वदेक एव भङ्गः, तेजस्कायिकवायुकायिकयोरातपोद्योतयश-कीर्तीनामुदयाभावात्तदाश्रितविकल्पाभावः । सर्वसंख्यया षड्विंशती प्रयोदश भङ्गाः । तथा प्राणापानपर्याप्त्या पर्याप्तस्योकाससहितायां पविंशतौ आतपोद्योतयोरन्यतरस्मिन्नुदिते सप्तविंशतिर्भवति । अत्र ये प्रागातपोद्योतान्यतरसहितायां षट्तिशती प्रतिपादितास्त एव पर्भङ्गाः । सर्वसंख्ययैकेन्द्रिजाणां भङ्गा द्विचत्वारिंशत्। अथ द्वीन्द्रियाणामुदयस्थानान्युच्यन्ते-द्वीन्द्रियाणामुदयस्थानानि पट्, तथाहि-एकविंशतिः पविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्चेति । तत्र तिर्यग्द्विकं द्वीन्द्रियजातिवसं बादरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीय॑यशःकीयोरेकतरा चेत्येता नव प्रकृतयः प्रागुक्तद्वादशध्रुवोदय प्रकृतिसहिता एकविंशतिः, इयं चान्तरालगतिस्थस्य द्वीन्द्रियस्यावाप्यते, अत्र भङ्गास्त्रयः-अयश-कीर्त्या सहापर्याप्तनामोदये वर्तमानस्यैकः, पर्याप्तकनामोदये वर्तमानस्य च यशःकीय॑यश कीर्तिभ्यां द्वाविति । तस्यैव शरीरस्थस्य औदारिकद्विकहुण्डसेवार्तोषघातप्रत्येकलक्षणाः पद् प्रकृतय उपनीयन्ते तिर्यगानुपूर्वी चापनीयत इति पर्विशतिर्भवति, अत्रापि भङ्गास्त्रयः प्राग्वत् । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगत्योः क्षिप्तयोरष्टाविंशतिः, अत्र यश-कीर्त्ययशःकीर्तिभ्यां द्वौ भङ्गो, अपर्याप्तकप्रशस्तविहायोगत्योरत्रोदयाभावात् । ततः प्राणापानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते एकोनत्रिंशत् , अत्रापि तावे द्वौ भङ्गो, यद्वा शरीरपर्याप्त्या पर्याप्तस्योकासेऽनुदिते उद्योते तूदिते एकोनत्रिंशत् , इहापि प्राग्वत् द्वौ भङ्गो, सर्वमीलने एकोनविंशति चत्वारो भङ्गाः। ततो भाषापर्याप्त्या पर्याप्तस्योवाससहितायामेकोनत्रिंशति सुस्वरदुःखरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशद्भवति, अत्र सुस्वरदुःस्वरयशःकीय॑यश कीर्तिभ्यां चत्वारो भङ्गाः । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योते तूदिते त्रिंशत् , अत्र यश-कीर्त्य 26DDOOD RADIODISADIODS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy