SearchBrowseAboutContactDonate
Page Preview
Page 1404
Loading...
Download File
Download File
Page Text
________________ | चतुर्विंशत्युदयप्राप्तेः । एत एवाष्टौ पञ्चविंशत्यूना विंशत्युदयसहिताः सयोगिकेवलिन्यष्टावेव भवन्ति, तत्र विंशत्येकविंशतिषड्विंशतिसप्तविंशत्युदयाः समुद्घातावस्थायां, अष्टाविंशत्येकोनत्रिंशदुदयौ योगनिरोधावस्थायां, त्रिंशदुदयः सामान्य केवलिनः स्वमावस्थस्य तीर्थ| कृतो वा कृतवानिरोधस्य, एकत्रिंशदुदयस्तीर्थकरस्य । तथा पञ्चविंशत्यादयः सप्तोदयाः षड्विंशत्यूनाः षड् देशविरते भवन्ति, तत्र | पञ्चविंशति सप्तविंशत्यष्टाविंशतिनवविंशत्युदया उत्तरवैक्रियं कुर्वतो वेदितव्याः, त्रिंशदुदयः तिर्यमनुष्ययोः पर्याप्तयोः, एकत्रिंशदुदय उद्योतमनुभवतस्तिरश्च इति । तथा प्रमत्तसंयते पञ्चविंशत्यादयः षड्विंशतिहीनाः पञ्चोदया भवन्ति, तत्र पञ्चविंशतिसप्तविंशत्यष्टा| विंशतिनवविंशत्युदया वैक्रियमाहारकं वा कुर्वतः संयतस्य वेदितव्याः, त्रिंशदुदयस्तु सामान्य संयतस्य यस्त्वेकत्रिंशदुदयः स तिरक्षामेव भवतीत्यत्र न संभवति । तथा एकोनत्रिंशदादयस्त्रय उदयाः सम्यग्मिथ्यादृष्टौ भवन्ति, तत्रैकोनत्रिंशन्नारकाणां त्रिंशद्देवमनुष्यतिरश्रां, | एकत्रिंशत्तिरश्चाम् । तथाऽप्रमत्ते द्वे उदयस्थाने एकोनत्रिंशात्रिंशच्च, तत्रैकोनत्रिंशद्वैक्रिये आहार के वा व्यवस्थिते ज्ञेया, त्रिंशत्सामान्यमनुष्ये । | अपूर्वकरणानिवृत्तिवाद र सूक्ष्म सम्परायेोपशान्तमोह क्षीण मोहेष्वपि त्रिंशदेवोदय स्थानम् । तथाऽयोगिकेवलिन्यष्टकोदयो नवोदयो वा तत्राष्टकोदयोऽतीर्थकृतः नवोदय स्तीर्थकृतः । अथेन्द्रियेषूदयस्थानानि चिन्त्यन्ते - तत्रै केन्द्रियाणामुदयस्थानानि पञ्च - एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिचेति । तत्र तेजसकार्मणे अगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णचतुष्कं निर्माणं चेत्येता द्वादश प्रकृतय उदयमाश्रित्य ध्रुवाः, तिर्यग्द्विकं स्थावर मेकेन्द्रियजातिर्बाद रसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशः कीर्त्त्य यशः कीर्त्त्यारेकतरा चेत्येतन्नवकसहिता एकविंशतिः । अत्र भङ्गाः पञ्च - बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयशः कीर्च्या सह चत्वारः, बादरपर्याप्त यशः कीर्त्तिभिः asa
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy