SearchBrowseAboutContactDonate
Page Preview
Page 1366
Loading...
Download File
Download File
Page Text
________________ प्राप्यत इति द्विधा, नवकबन्धं यावत्सर्वेषामपि हाम्यरत्योररतिशोकयोश्च विकल्पेन बन्धकत्वात् । भूयः सा विष्वपि वेदेषु प्रत्येक विकल्पेन | AI प्राप्यत इति षोढा । सैव द्वाविंशतिमिथ्यात्वावन्धे एकविंशतिः, नवरमत्र द्वयोवेद योरन्यतरो वेद इति वाच्यं । एकविंशतिबन्धकानां सामा दनानां नपुंसकवेदाबन्धकत्वात्तद्वन्धस्य मिथ्यात्वोदयहेतुकत्वात्सासाइनानां च तदुदयाभावात्ततो द्वयोयुगलयोद्वयोश्च वेदयोः का संचारणया चतुर्धेकविंशतिः । प्रथमकपायावन्धे सप्तदशको बन्धः, द्वितीयकषायाबन्धे त्रयोदशकः, तृतीयकषायाबन्धे नवकः, ५ एतेषु सप्तदशादिषु अनन्तानुबन्ध्युदयाभावात् स्त्रीवेदस्य न बन्ध इति पुरुषवेद एक एव बध्यते इति द्वावेव भङ्गौ युगलद्विकेन लभ्यते । तत्रापि नवकबन्धे प्रमत्तगुणस्थाने युगलविकल्पः प्राप्यते, अप्रमत्तापूर्वकरणयोश्च हास्यरतिरूपमेकमेव युगलं | प्राप्यते, अरतिशोकयुगलस्य प्रमत्तगुणस्थान एव स्थितत्वादित्येतद्गुणस्थानद्वये नवकबन्ध एकरूप एव । तथा हास्यरतिभयजुगुप्सा अपूर्वकरण एव तिष्ठन्ति, परतो नानुवर्त्तन्ते । ततोऽनिवृत्तिबादरे प्रथमसमयादारभ्य पञ्चको बन्धः, स चानिवृत्तिवादराद्धायाः प्रथम| पञ्चमभागान्तं यावत् । ततः परतः पुरुषवेदस्य बन्धाभावाच्चतुर्विधो बन्धः, सोऽप्यनिवृत्तिबादरसम्परायाद्धाया द्वितीयपश्चमभागान्तं यावत् । ततः परतः संज्वलनक्रोधस्य बन्धाभावात्रिको बन्धः, सोऽपि तृतीयपञ्चमभागान्तं यावत् । ततः परतः संज्वलनमानस्य बन्धाभावाद्विको बन्धः, सोऽपि चतुर्थपञ्चमभागान्तं यावत् । ततः परतः संज्वलनमायाया बधाभावात्संज्वलनलोभस्यैकस्य बन्धः, स चानिवृत्तिवादरसम्परायगुणस्थानचरमसमयं यावत् । अमीषामेव बन्धस्थानानां कालप्रमाणमभिधास्यामः-तत्र द्वाविंशतिबन्धे कालमधि| कृत्य भङ्गत्रयं, तथाहि-अभव्यानामेष बन्धोऽनाद्यपर्यवसितः, भव्यानामनादिसपर्यवसितः, सम्यक्त्वपरिभ्रष्टानां सादिसपर्यवसानः, | स च जघन्येनान्तर्मुहुर्तप्रमाण उत्कर्षेण देशोनपुद्गलपरावर्तार्द्धमानः । एकविंशतिबन्धस्तु सासादनभावे लभ्यते, ततो यावानेव CRICKET
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy