________________
कर्मप्रकृतिः
॥१०२॥
DESGSMS
बन्धाभावात् । सातस्य बन्धोऽसातस्योदयो द्वे सती ३, यद्वा सातस्य बन्धः सातस्योदयो द्वे सती ४, इमो द्वौ भङ्गो मिथ्यादृष्टेरारभ्य सयोगिकेवलिचरमसमयं यावत् । परतो बन्धाभावेऽसातस्योदयः सातासाते सती ५, अथवा सातस्योदयः सातासाते सती मोहनीयस्य ६, एतौ द्वौ भङ्गो अयोगिकेवलिद्विचरमसमयं यावत् । चरमसमयेऽसातस्योदयोऽसातं सत्, यस्य द्विचरमसमये सातं क्षीणं ७, यस्य बंधस्थात्वसातं द्विचरमसमये क्षीणं तस्य मातस्योदयः सातस्य सत्ता ८ । सर्वसंख्यया वेदनीयाः सांवधिका अष्टौ भङ्गाः ।
नानि ज्ञानावरणे विध्ने च संवेधभंगाः २ बंधकाले १० यावत्
ज्ञानावरणान्तराययोश्च पञ्चानामेव बन्ध उदयः सत्ता च, 13
बन्धोपरमेऽपि पश्चानामेवोदयः सत्ता चेति द्वौ भङ्गौ । तदेव५ अबंधकाले १२ यावत्
| मल्पवक्तव्यत्वादुक्तानि प्रथमतः पद् कर्माणि । अथ मोहनीयस्य बन्धोदयसत्तास्थानान्युच्यन्ते-मोहनीयस्य दश बन्धस्थानानि, तद्यथा-प्रथम बन्धस्थान द्वाविंशतिः, सार | चाद्यगुणस्थाने। द्वितीयमेकविंशतिः, सा च द्वितीयगुणस्थाने । तृतीयं सप्तदश, तत्तृतीयतुरीयगुणस्थानयोः । चतुर्थ त्रयोदश, | तच्च पञ्चमे गुणस्थाने । पश्चमं नव, तच्च षष्ठसप्तमाष्टमगुणस्थानेषु । षष्ठं पञ्चप्रकृत्यात्मकं, सप्तमं चतुष्प्रकृत्यात्मकं, अष्टमं त्रिप्रकृत्यात्मकं, नवमं द्विप्रकृत्यात्मकं, दशममेकप्रकृत्यात्मकं, इमानि पञ्चादीनि पञ्च बन्धस्थानानि नवमगुणस्थाने द्रष्टव्यानि । अत्र मिथ्या- ॥१०२।। त्वं पोडश कषाया अन्यतमो वेदोऽन्यतरागलं भयं जुगुप्सा चेति द्वाविंशतिः । एषा च हास्यरतियुगलेऽरतिशोकयुगले च पर्यायेण