________________
कर्मप्रकृतिः
॥७५॥
चरमसमये प्रामुक्तक्षपितकाशप्रकारेण सर्वजघन्यं यत्प्रदेशसत्कर्मस्थानं तदादि कृत्वा नानाजीवानपेक्ष्य यथायोगमुत्तरोत्तरवृद्धथा निर-1 न्तरं प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकाशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । तावन्ति तानि द्वितीयं स्पर्धकम् । अथवा || सत्ता पावत्प्रथमा स्थितिर्द्वितीया च स्थितिर्विद्यते तावदेकं स्पर्धकं, द्वितीयस्थितौ च चरमसंछोभेन क्षीणायां प्रथमस्थितौ समयमात्रायां शेषी-13 प्रदेशसत्कभूतायां द्वितीयं स्पर्धकम् । एवमेव प्रकारद्वयेन स्त्रीवेदस्यापि स्पर्धकद्वयं भावनीयम् । पुरुषवेदे तु स्पर्धकद्वयमित्थं भावनीयम्-उदय
मस्थान
प्ररूपणा चरमसमये जघन्य प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्षयकैकपरमाणुवृद्धया निरन्तरं प्रदेशसत्कर्मस्थानानि ताबद्वाच्यानि यावद्गुणि| तकर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् , एतानि च सर्वाण्यनन्तानि, एतान्येकं स्पर्धकम् । तथोदयचरमसमये द्वितीयस्थितौ चरमखण्डे संक्रम्यमाणे सर्वजघन्यप्रदेशसत्कर्मस्थानमादि कृत्वा प्राग्वद्वितीयं स्पर्धकं वाच्यम् । किंच 'अहिगा पुरिसस्सेत्यादि'-पुरुषवेदस्याधिकान्यपि स्पर्धकानि भवन्ति । कियन्तीति चेत्,उच्यते-द्वे आवलिके द्विसमयहीने, प्रथमायास्तृतीयार्थत्वात् द्विसमयहीनाभ्यां द्वाभ्यामावलिकाभ्यां गुणितानि, योगस्थानैः कृत्स्नैः-तृतीयायाः प्रथमार्थत्वात् कृत्स्नानि योगस्थानानि, आवलिकादिकसमयविरूपहीनैर्गु. णिता यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि भवन्ति, समयद्वयहीनाबलिकाद्विकसमयप्रमाणान्यधिकानि भवन्ती त्यर्थः । तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे जाते सति समयद्वयोनाबलिकाद्विकबद्धं दलिकं विद्यते । ततोऽवेदकस्य सतः संज्वलनत्रिकोक्तप्रकारेण योगस्थानान्यपेक्ष्य समयद्वयहीनावलिकाद्वयसमयप्रमाणानि स्पर्धकान्युपपद्यन्ते । इदं च द्वितीयस्थितिप्रकाराभिधानमेव द्रष्टव्यं (इदं च प्रकारान्तराभिधानाभिप्रायेण द्रष्टव्यं), "दो इगि संतं हवा एए" इति पञ्चसहप्रतीकस्य "अथवा एते | द्वे स्पर्धके द्रष्टव्ये, यावत्प्रथमा स्थितिर्द्वितीया च स्थितिर्विद्यते तावदेक स्पर्धकम् , प्रथमस्थितौ द्वितीयस्थितौ वाऽपरस्थितिक्षये शेषी
॥७५॥