SearchBrowseAboutContactDonate
Page Preview
Page 1279
Loading...
Download File
Download File
Page Text
________________ कमप्रकृतिः (मलय)-'तस्सेव'त्ति । य एव पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिसत्कदलिकसर्वसंच्छोमे उत्कृष्टप्रदेशसत्कर्मणो भवन्ति । इयमत्र भावना-य एव पुरुषवेदोत्कृष्ट प्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण सत्ता संज्वलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्ट प्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्चसंक्रमेण माने संक्रमयति तदा | उत्कृष्टप्रदे| संज्वलनमानोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव संज्वलनमानं सर्वसंक्रमेण संज्वलनमायायां संक्रमयति तदा संज्वलनमायोत्कृष्टप्रदेश शसत्कर्म स्वामित्वं सत्कर्मस्वामी । स एव यदा संज्वलनमायां सर्वसंक्रमेण संज्वलनलोभे संक्रमयमि तदा संज्वलनलोभोत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा चतुरो वारान् मोहनीयमुपशमय्य गुणितकाशः शीघ्रं क्षपणायोत्थितस्तस्य सूक्ष्मसंपरायगुणस्थानकचरमसमये वर्तमानस्य सातवेदनी| योच्चैर्गोत्रयश-कीर्तीनामुत्कृष्ट प्रदेशसत्कर्म । यस्मादेतासु प्रकृतिषु श्रेण्यामारूढः सन् गुणसंक्रमेण प्रभूतान्यशुभप्रकृतिदलिकानि | संक्रमयति ततः सूक्ष्मसंपरायचरमसमये एतासामुत्कृष्टं प्रदेशसत्कर्म प्राप्यते । उक्तं च-"चउरुवसामिय मोह जसुच्चसायाण सुहुमख वगते । जं असुभपगइदलियाण संकमो होइ एयालु ॥३१॥ ___ (उ०)-य एव पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिदलिकसर्वसंच्छोभे उत्कृ-| टप्रदेशसत्कर्मणो भवन्ति । अयमिह तात्पर्यार्थः-पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण संचलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्वसंक्रमेण संज्वलनमाने संक्रमयति तदा संज्वलनमानोत्कएप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनमानं सर्वसंक्रमेण संज्वलन्यां मायायां संक्रमयति तदा संज्वलनमायो-कृष्टप्रदेशसत्कर्म| स्वामी । स एव यदा संज्वलनमायां संज्वलनलोभे सर्वसंक्रमेण संक्रमयति तदा संचलनलोभोत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा चतुरो GLOSITCOICE ॥५९।।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy