________________
कर्म प्रकृतिः
॥४३॥
ल
ace
तेषामुदयो घटते ॥ १७॥
( उ० ) - तदेवं कृता साद्यनादिप्ररूपणा, सम्प्रति स्वामित्वं वाच्यं तच्च द्विधा - उत्कृष्टस्थितिसत्कर्मस्वामित्वं जघन्य स्थिति सत्कर्मस्वामित्वं च तत्र प्रथमत उत्कृष्टस्थितिसत्कर्म स्वामित्वमाह - यासां प्रकृतीनां सह युगपद्बन्धोदयौ भवतस्तासां ज्ञानावरणपञ्चकदर्श |नावरणचतुष्टयासात वेदनीय मिथ्यात्वषोडशकषायपञ्चेन्द्रियजातितैज ससप्तक हुण्ड संस्थानवर्णादिविंशत्यगुरुलघुपराघातोपघातोच्छ्वास प्रश स्तविहायोगत्युद्योतत्र सबादरपर्याप्तप्रत्येका स्थिराशुभदुर्भगदुःखरानादेयायशः कीर्त्तिनिर्माणनीचैर्गेौत्रान्तरायपञ्चकर्तिर्य मनुष्यापेक्षिक वैक्रियसप्तकलक्षणानां उदयबन्धोत्कृष्टानां षडशीतिप्रकृतीनां ज्येष्ठमुत्कृष्टं स्थितिसत्कर्म ज्येष्टस्थितिबन्धसमं उत्कृष्टस्थितिबन्धप्रमाणं भवति । एतासां ह्युत्कृष्ट स्थितिबन्धारम्भेऽबाधाकालमध्ये प्राग्बद्धदलिकप्राप्तावप्युदयवतीत्वात्प्रथमस्थितेरन्यत्र स्तिबुकसंक्रमेण न संक्रम इत्युत्कृष्टस्थितिबन्धप्रमाणादुत्कृष्टस्थितिसत्कर्मणो न कोऽपि विशेषः । तथाऽनुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयचन्धपरा:- निद्रापञ्चकनरकद्विक तिर्यद्विकौदारिकसप्त कै केन्द्रिय जाति से वार्त्त संहननातपस्थावररूपा विंशतिः, तासां समयोनोत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । तथाहि - एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालमध्येऽपि प्राग्बद्धं दलिकमस्ति तथापि प्रथमस्थितिं तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति, तेन तया समयमात्रया प्रथमस्थित्यो नोत्कृष्टा स्थितिः । अथ कथं निद्रादीनामनुदये सति बन्धेनोत्कृष्टस्थितिप्राप्तिः ? उच्यते - उत्कृष्टः स्थितिबन्धः उत्कृष्टसंक्लेशाधीनो, न चोत्कृष्टसंक्लेशसच्चे निद्रापञ्चकोदयसंभवः, नरकद्विकस्य चोत्कृष्टां स्थितिं तियचो मनुष्या वा वध्नन्ति न च तेषु नरकद्विकोदयः संभवी । शेषाणां तु देवा नारका वा यथासंभवमुत्कृष्टस्थितिबन्धकाः, न च तेषु तदुदयोपपत्तिरित्येतासामनुदय एवोपपन्न उत्कृष्टस्थितिबन्ध इति ॥ १७ ॥
10 1
Waaaaa
सत्ता
स्थितिसत्कर्म स्वामित्वं
॥४३॥