SearchBrowseAboutContactDonate
Page Preview
Page 1246
Loading...
Download File
Download File
Page Text
________________ ak ( मलय ० ) - तदेवं कृता साद्यनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा - उत्कृष्टस्थितिसत्कर्मस्वामित्वं, जघन्यस्थितिसत्कर्मस्वामित्वं च । तत्र प्रथमत उत्कृष्टस्थितिसत्कर्मस्वामित्वमाह – 'जेठि 'ति । यासां प्रकृतीनां सह युगपत् बन्धोदयौ भवतः, कासां युगपत् बन्धोदयौ भवतः ? इति चेत् उच्यते- ज्ञानावरणपञ्चकदर्शनावरण चतुष्टयासात वेदनीय मिध्यात्वपोडश कपायपञ्चेन्द्रियजातितैजससप्तक हुण्ड संस्थान वर्णादिविंशत्यगुरुलघुपुराघातोपघातोच्छ्वासाप्रशस्तविहायोगत्युद्योतत्र सबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःखरानादेयायशः कीर्तिनिर्माण नीचैर्गोत्र पञ्चविधान्तरायाणां तिर्यङ्मनुष्यानधिकृत्य वैक्रिय सप्तकस्य सर्वसंख्यया पडशीतिप्रकृतीनाम्, तासां 'ज्येष्ठं' - उत्कृष्टं स्थितिसत्कर्म 'ज्येष्ठस्थितिबन्धसमं' - उत्कृष्टस्थितिबन्धप्रमाणं भवति । तासां हि उत्कृष्टस्थितिबन्धारम्भेऽबाधाकालेऽपि प्राग्बद्धं दलिकं प्राप्यते । न च तासां प्रथमस्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, उदयवतीत्वात् । ततस्तासामुत्कृष्टस्थितिबन्धप्रमा| णमुत्कृष्टं स्थितिसत्कर्म प्राप्यते । अनुदयबन्धपराणां समयोना ज्येष्ठा स्थितिज्र्ज्येष्ठमुत्कृष्टं स्थितिसत्कर्म । तत्रानुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयबन्धपराः - निद्रा पञ्चकनरकद्विकतिर्यद्वि कौदारिकसप्सकै केन्द्रिय जाति से वार्त संहननात पस्थावररूपा विंशतिसंख्यास्तासां समयोना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । तथाहि - एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालेऽपि प्राग्बद्धं दलिकमस्ति तथापि प्रथमस्थितिं तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति । तेन तया प्रथमस्थित्या समयमात्रया ऊना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । अथोच्येत-कथं निद्रादीनामनुदये सति बन्धेनोत्कृष्टा स्थितिः प्राप्यते । उच्यते - उत्कृष्टो हि स्थितिबन्ध उत्कृष्टे संक्केशे भवति । न चोत्कृष्टे संक्लेशे वर्तमानस्य निद्रापञ्चकोदयसंभवः । नरकद्विकस्य तियञ्च मनुष्या वा उत्कृष्टस्थितिबन्धकाः । न च तेषां नरकद्विकोदयः संभवतीति । शेषकर्मणां तु देवा नारका वा यथायोगमुत्कृष्टस्थितिबन्धकाः न च तेषु 5022252
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy