________________
कर्मप्रकृतिः
सत्ता
स्वामित्वं
॥३०॥
६ADDOG
|नीयाः । यदि उद्वलितास्ततो न सन्ति, इतरथा तु सन्तीत्यर्थः ॥५॥ __ (उ०)-द्वितीये तृतीये च गुणस्थाने मिश्रं सम्यग्मिथ्यात्वं नियमादस्ति, यतः सासादनो नियमादष्टाविंशतिसत्कमैव भवति, | मिश्रस्त्वष्टाविंशतिसत्कर्मा विसंयोजितसम्यक्त्वः सप्तविंशतिसत्कर्मोदलितानन्तानुवन्धिचतुष्कश्चतुर्विशतिसत्कर्मा वा भवतीत्येतेषु च |
सत्तास्थानेषु मिश्रसत्ताऽवश्यं लभ्यते । षड्विंशतिसत्कर्मा तु मिश्रो न संभवत्येव, मिश्रपुञ्जस्य सत्तोदयाभ्यां विना मिश्रगुणस्थानाप्राप्तेः । 'स्थाननवके'-गुणस्थाननवके मिथ्यादृष्टयविरतसम्यग्दृष्टयादावुपशान्तमोहान्ते भजनीयं मिश्रं विकल्पनीयम् । यो मिथ्यादृष्टिः षड्विंशतिसत्कर्मा ये चाविरतसम्यग्दृष्टयादय उपशान्तमोहान्ताः क्षायिकसम्यग्दृष्टयस्तेषु मिश्रं सत्तायां न प्राप्यतेऽन्यत्र च प्राप्यत इत्यर्थः । तथा संयोजना-अनन्तानुबन्धिनो द्वयोमिथ्यादृष्टिसासादनयोर्नियमाद्भवन्ति, यत एताववश्यमनन्तानुबन्धिनो बध्नतः, पञ्चसु पुनर्गुणस्थानेषु सम्यग्मिथ्यादृष्टयादिष्वप्रमत्तसंयतपर्यन्तेषु भजनीयाः, विसयोजितानन्तानुबन्धिनश्चतुर्विशतिसत्कर्मणः सम्यग्मिथ्यादृष्टेः, क्षीणसप्तकतयैकविंशतिसत्कर्मणोऽनन्तानुबन्धिराहित्येन चतुर्विशतिसत्कर्मणो वाऽविरतसम्यग्दृष्टयादेरनन्तानुबन्धिनः सत्तायां न सन्ति, तदितरस्य तु सन्तीति । अत्र गुणस्थानपञ्चक एवानन्तानुबन्धिनां भजनीयत्वं यदुक्तं-"तद्विसंयोजितानन्तानुबन्धिकषाय एवोपशमश्रेणिमपि प्रतिपद्यते" इति स्वमताभिप्रायेण । कर्मग्रन्थान्तरे तु "आइदुगे अण नियमा भइया मीसाइ णवगम्मि" | इत्युक्तमिति ध्येयम् ।।५।।
खवगानियहिअद्धा संखिजा होंति अट्ट विकसाया। निरयतिरियतेरसगं निद्दानिहातिगेणुवरि ॥६॥ (चू०)-'खवगानियहिअद्धा संखेज्जा होति अट्ट वि कसायत्ति-खवगअणियहिअद्धाते 'संखेज्जा होंति' जाव
>DRODDCERSONA
॥३०॥