SearchBrowseAboutContactDonate
Page Preview
Page 1199
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१९॥ समये स्तोकं प्राप्यते, अन्यच्चोत्कृष्टसंक्लेशयुक्तस्य प्रदेशोदीरणा स्तोका भवति । यतस्तस्यानुभागोदीरणा बढी प्रवर्तते, यत्र चानुभागोदीरणा बढी प्रवर्तते तत्र स्तोका प्रदेशोदीरणा, ततो 'मिच्छत्तगतो अतिकिलिट्ठो' इत्याद्युक्तम् ।।२०-२१॥ उदय: (उ०)-तदेवमुक्त उत्कृष्टप्रदेशोदयस्वामी । अथ जघन्यप्रदेशोदयस्वाम्यभिधीयते-जघन्यस्वामीत्ययं भावप्रधानो निर्देशः, प्रथमा | जघन्यप्र|च सप्तम्यर्थे, ततोऽयमर्थः-जघन्यप्रदेशोदयस्वामित्वे प्रकृतमधिकारः । क्षपितकांश इत्यत्र सप्तम्यास्तृतीयार्थत्वात्क्षपितकर्माशेन, तत्र देशोदय स्वामित्वम् | कश्चित्क्षपितकर्माशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुष्क उत्पत्त्यनन्तरमन्तर्मुहूर्ने गते सति सम्यक्तत्वं प्रतिपद्यते । तच्च सम्यक्त्वं देशोनानि दशवर्षसहस्राणि यावत्परिपाल्यान्तर्मुहूर्तावशेषे जीविते सति मिथ्यात्वं गतः । स चातिसंक्लिष्टपरिगामो वक्ष्यमाणकर्मणामुत्कृष्टां स्थिति बद्धमारभते, बहुतरं च दलिकं तदानीमुदर्तयति तावद्यावदन्तर्मुहूर्त । ततः संक्लिष्टपरिणाम एव कालं कृत्वैकेन्द्रियो जातः, तजन्मप्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरणकेवलज्ञानावरणकेवलदर्शनावरणमनःपर्यायज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां | जघन्यः प्रदेशोदयो भवति । इह प्रायः सर्वदलिकमुद्वर्तितमिति स्तोकं प्राप्यते प्रथमसमये, किं चोत्कृष्ट संक्लेशवतः प्रदेशोदीरणा स्तोका भवति, तस्यानुभागोदीरणाया एव वह्वयाः प्रवृत्तेः, अनुभागोदीरणायां च बह्वयां प्रवर्तमानायां प्रदेशोदीरणायाः स्तोकाया | एव प्रवृत्तिनियमात् । अनेनैवाशयेन मिथ्यात्वगतोऽतिक्लिष्ट इत्युक्तम् ॥ २०-२१ ।। ओहीण संजमाओ देवत्तगए गयस्स मिच्छत्तं । उकोसठिईबंधे विकढणा आलिगं गंतुं ॥२२॥ (चू०)-ओहिनाणओहिदसणावरणियाणं 'संजमातोत्ति खवियकम्मंसिगो अपच्छिमे भवग्गहणे संजमं 15॥१९॥ पडिवन्नो अपरिवडिएण 'देवत्तगते गयस्स मिच्छत्तं'ति-देवलोगं गतो ततो अंतोमुहत्तण मिच्छत्तं गतो 'उक्कोस.
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy