SearchBrowseAboutContactDonate
Page Preview
Page 1182
Loading...
Download File
Download File
Page Text
________________ ततोऽपि संयतस्यानन्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरात्तरावशुद्ध प्रकषवशाद्यथोत्तरमसंख्येयगुणदलिका भावनीया ॥८-९ ॥ (उ०)--कृता साद्यनादिप्ररूपणा । अथ स्वामित्वमभिधेयं । तच्च द्विधा - उत्कृष्ट प्रदेशोदयस्वामित्वं, जघन्य प्रदेशोदयस्वामित्वं च । तत्रोत्कृष्टप्रदेशोदयं (प्रदेशोदयस्वामित्वं) प्रतिपिपादयिषुस्तदौपयिकीः संभवतीर्गुणश्रेणीः सर्वा अपि निरूपयति- इहैकादश गुणश्रेणयः । तद्यथा - सम्यक्त्वोत्पादे प्रथमा गुणश्रेणिः १ । द्वितीया श्रावके देशविरते २ । तृतीया विरते सर्वविरते प्रमत्तेऽप्रमत्ते च ३ । चतुर्थी | संयोजनाविनाशेऽनन्तानुबन्धिनां विसंयोजने ४ । पञ्चमी दर्शन मोहनीयत्रितयक्षपके ५ । षष्ठी चारित्रमोहनीयोपशमके ६ | सप्तमी उपशान्तमोहे ७ । अष्टमी मोहनीयक्षपके ८ । नवमी क्षीणमोहे ९ । दशमी सयोगिकेवलिनि १० । एकादशी त्वयोगिकेवलिनीति ११ । अत्र यथोत्तरं प्रदेशतः श्रेणिरसङ्घयेषगुणा । तथाहि - सर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां दलिकं, ततोऽपि देशविरतिगुणश्रेण्यामसङ्ख्थेयगुणं, ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणं, एवं तावद्वाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकम संख्येयगुणम् । अत एवो दयः प्रदेशोदयोऽप्येतासु गुणश्रेणिषु यथोत्तरमसंख्येयगुणो वाच्यः । तथा सर्वास्वप्येतासु गुणश्रेणिषु कालस्तद्विपरीतः - उदयक्रमविष| रीतः 'संखेज्जगुणसेढि' त्ति-संख्येयगुणश्रेण्या वाच्यः । तथाहि - अयोगिकेवलिगुणश्रेणिकालः सर्वस्तोकः, ततः सयोगिकेवलिगुणश्रे - णिकाल: संख्येयगुणः, ततोऽपि क्षीण मोहगुणश्रेणिकाल: संख्येयगुणः, एवं तावत्पश्चानुपूर्व्या वक्तव्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एषा सम्यक्त्वोत्पादगुणश्रेणिः शेषाश्च यथोत्तरमसंख्येयगुणदलिकाः कालतच संख्येयगुणहीना उपरिष्टाच्च पृथुत्वेन यथोत्तरं विशाला विशालतरा हृदि व्यवस्थाप्य भावनीयाः । स्यादेतत् कथं दलिकं यथोत्तरमसंख्येयगुणं प्राप्यते । उच्यते aa
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy