SearchBrowseAboutContactDonate
Page Preview
Page 1181
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१०॥ CatCSDADIOGIC (मलय०)-कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वमभिधानीयम् । तच्च द्विधा-उत्कृष्टप्रदेशोदयस्वामित्वं, जघन्यप्रदेशोदय-10 स्वामित्वं च । तत्रोत्कृष्टप्रदेशोदयस्वामित्वप्रतिपादनार्थ संभवन्तीगुणश्रेणीः सर्वा अपि प्ररूपयति-'सम्मतुप्प'इत्यादि । इहैकादश गुण-15 उदय: श्रेणयः । तद्यथा-सम्यक्त्वोत्पादे प्रथमा । द्वितीया 'श्रावके-देशविरते । तृतीया विरते-सर्वविरते प्रमत्तेऽप्रमत्ते च । चतुर्थी संयोजना-19 एकादशगु णश्रेणयः नामनन्तानुबन्धिनां विसंयोजने। पश्चमी दर्शनमोहनीयत्रितयक्षपणे। षष्ठी चारित्रमोहनीयोपशमके। सप्तमी उपशान्तमोहनीये । अष्टमी मोहनीयक्षपके। नवमी क्षीणमोहे। दशमी सयोगिकेवलिनि । अयोगिकेवलिनि त्वेकादशीति । 'असंखगुणसेढी उदउ' त्तिसर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां दलिकम् । ततोऽपि देशविरतिगुणश्रेण्यामसंख्येयगुणम् , ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणम् । एवं तावद्वाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणम् , तस्मात् प्रदेशोदयमप्याश्रित्य एता गुणश्रेणयो यथाक्रममसंख्येय-12 गुणा वक्तव्याः । 'तविवरीओ कालो संखिजगुणसेति'त्ति-सर्वास्वप्येतासु गुणश्रेणिषु कालस्तद्विपरीत उदयविपरीतः संख्येयगुणश्रेण्या। तद्यथा-अयोगिकेवलिगुणश्रेणिकालः सर्वस्तोकः । सयोगिकेवलिगुणश्रेणिकालः संख्येयगुणः । ततोऽपि क्षीणमोहगुणश्रेणिकालः संख्येयगुणः । एवं तावद्वाच्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एपा सम्यक्त्वोत्पादगुणश्रेणिः पुनयथोत्तरमसंख्येयगुणदलिकाः कालतश्च संख्येयगुणहीनाः उपरिष्टाच्च पृथक्त्वेन यथोत्तरं विशाला विशालतराः। अथोच्येत-कथं दलिकं यथोत्तरमसंख्येयगुणं प्राप्यते ? उच्यते-सम्यक्त्वं ह्युत्पादयन् मिथ्यादृष्टिभवति, ततस्तस्य स्तोकं गुणश्रेणिदलिकम् । सम्यक्त्वोत्पत्तौ सत्यां पुनः प्राक्तनगुणश्रेण्यपेक्षयाऽसंख्येयगुणदलिका गुणश्रेणिः, विशुद्धत्वात् । ततो देशविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, सम्यग्दृ-1) ध्यपेक्षया देशविरतस्यातिविशुद्धत्वात् । ततोऽपि सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, देशविरतात्सर्वविरतस्य विशुद्धतरत्वात् ।। ॥१०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy