SearchBrowseAboutContactDonate
Page Preview
Page 1175
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥७॥ DISCRIODIODOG ध्रुवाध्रुवौ पूर्ववत् । तथाऽभूषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारस्तद्यथा-अनादिधुवोऽध्रुवश्च । तथाहि-गुणितकाशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वो उदयः प्यनुत्कृष्टः । स चानादिः, सदैव भावात् । धुवाधुवौ पूर्ववत् । तथा 'मिथ्यात्वे'-मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, IX साधनाद तद्यथा-सादिरनादिधुवोऽधुवश्च । तथाहि-क्षपितकांशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्यौपशमिकसम्यक्त्वात्प्रच्युत्य मिथ्या प्ररूपणा त्वं गतस्यान्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामात्रदलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । सोऽपि द्वितीयसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । धुवाधुवौ पूर्ववत् । तथा कश्चिद्गुणितकांशो यदा देशविरतिगुणश्रेण्यां वर्तमानः सर्वविरति प्रतिपद्यते । ततस्तन्निमित्तां गुणश्रेणिं करोति । कृत्वा च तावद्गतो यावत द्वयोरपि गुणश्रेण्योर्मस्तके। तदानी च कश्चिन्मिथ्यात्वं गच्छति । ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । सोऽपि ततो द्वितीयसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः। धुवाध्रुवौ पूर्ववत् । एतासां च सप्तचत्वा. रिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पो जघन्योत्कृष्टरूपी 'द्विधा'-द्विप्रकारौ । तद्यथा-सादी अध्रुवौ च । तौ च भावितावेव । 'शेषाणां'-अध्रुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुन्कृष्टरूपा द्विधा ज्ञातव्याः, तद्यथा-सादयोऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ॥७॥ Iloll (उ०)-कृता मूलप्रकृतीनां साधादिप्ररूपणा, अथोत्तरप्रकृतीनां तां चिकीर्षुराह-तैजससप्तकवर्णादिविंशतिस्थिरास्थिरनिर्मा-13 KORRENESSC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy