SearchBrowseAboutContactDonate
Page Preview
Page 1167
Loading...
Download File
Download File
Page Text
________________ G कर्मप्रकृतिः उदयः स्थित्युदयः ॥३॥ A RODAISADIOCrace | तिन प्राप्यते इति तद्वर्जनम् । शेषं जघन्योदीरणातुल्यं निरवशेषमगन्तव्यम् ॥ ४॥ (उ०)-उक्तः प्रकृत्युदयः, अथ स्थित्युदयमाह-स्थित्युदयोऽपि स्थितिक्षयाप्रयोगतश्च भवति । तत्र स्थितिरबाधाकालरूपा, तस्याः | क्षयेण द्रव्यक्षेत्रकालभवभावरूपोदयहेतुसंप्राप्तौ सत्यां यः स्वभावत उदयो भवति स स्थितिक्षयनिष्पन्न उदयः । यस्तु तस्मिन्नुदये प्रवर्तमाने सत्युदीरणाकरणरूपेण प्रयोगेणाकृष्यमाणस्य दलिकस्यानुभवः स प्रयोगोदयः । अपिरत्रानुक्तविशेषांशे उदीरणासाम्यं | | प्रागुक्तं समुच्चिनोति । योऽयमुदयः सामान्यतो द्विधा-उत्कृष्टो जघन्यश्च । तत्रोत्कृष्टस्थित्युदय उत्कृष्टस्थित्युदीरणात उदयस्थित्याऽभ्यधिकः । तथाहि-उत्कृष्टायां स्थितौ बध्यमानायामवाधाकालमध्येऽपि.प्राग्बद्धं दलिकमस्तीति कृत्वा बन्धावलिकायामतीतायामनन्तरस्थितौ विपाकोदयेन वर्तमान उदयावलिकात उपरितनीः स्थितीः सर्वा अप्युदीरयति, उदीर्य च वेदयते । ततो बन्धावलिकोदयाव|लिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदीरणे तुल्ये । वेद्यमानायां च स्थिताबुदीरणा न प्रवर्तते, किंतूदय एव केवलः । ततो वेद्यमानया समयमात्रया स्थित्योत्कृष्टस्थित्युदीरणात उत्कृष्टस्थित्युदयोऽभ्यधिकः । बन्धोदयावलिकाद्वयहीनश्चोत्कृष्टस्थित्युदय उदयोत्कृष्टवन्धानां वेदितव्यः। शेषाणां तु यथासंभवं, तत्राप्युक्तनीत्योदयस्थित्याऽभ्यधिको वक्तव्यः । तथा इस्वो-जघन्यः स्थित्युदयः षट्त्रिंशत्प्रकृतीनां प्रागुक्ताया एकचत्वारिंशतो निद्रापश्चकवर्जनेन निष्पन्नानामेका समयमात्रोदयस्थितिः समयमात्रै कस्थित्युदयप्रमाणो ज्ञातव्यः, समयमात्रा चैका स्थितिश्वरमस्थितिरवसे या। निद्रापश्चकस्य तूदीरणाया अभावेऽपि शरीरपर्याप्यनन्तरं केवलोदयकालेऽपवर्तनाया अपि प्रवृत्तावेका स्थितिर्न प्राप्यत इति तद्वर्जनम् । शेषं जघन्योदीरणातुल्यं निरवशेषमवगन्तव्यम् ॥४॥ ॥३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy