________________
CONOKAR
समयेन ऊनानि अष्टसामयिकेभ्यो व्यतिरिक्तानि सप्तसामयिकादीनि स्थानानि-योगस्थानानि ॥ १३ ॥
(उ०) तदेवमुक्तमुत्कृष्टमवस्थानकालमानम् ,अथ जघन्यावस्थानकालमानमाह-सर्वेषामुक्तयोगस्थानानां जघन्यमेकसमयं यावदवस्थानम् । यान्यप्यपर्याप्तसूक्ष्मनिगोदसम्बन्धीन्यसङ्खथेयानि योगस्थानानि तेषां जघन्यत उत्कर्षतो वा एकं समयं यावदवस्थानम् ।। उत्कर्षतोऽपि तेषां समयमात्रावस्थाने किं बीजमिति चेत् “सव्वो वि अपजत्तगो पइखणमखगुणाए जोगवुड्ढीए वढिर"त्ति वचनात । | द्वितीयसमयेऽसङ्खयेयगुणवृद्धिरेव । उक्ता समयप्ररूपणा । अथ तेषामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाह-'ठाणाणीत्यादि। | अष्टसामयिकानि स्थानानि-योगस्थानानि अल्पानि-सर्वस्तोकानि। तेभ्यः समयशः-समयेन समयेनोनानि सप्तसामयिकादीनि स्थानानि, 12 उभयोः पूर्वोत्तररूपयोर्द्वयोः पार्श्वयोरसङ्खयेयगुणानि । तथाहि-अष्टसामयिकानि चिरकालस्थायित्वात्स्तोकान्येव प्राप्यन्ते । तेभ्य उभयपार्श्ववर्तीनि सप्तसामयिकानि अल्पस्थितिकत्वादसंख्येयगुणानि, स्वस्थाने तु तानि द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽसंख्येय| गुणान्युभयपार्श्ववर्तीनि षट्सामयिकानि, स्वस्थाने तु तुल्यानि । तेभ्योऽप्यसङ्खयेयगुणानि पञ्चसामयिकान्युभयपार्श्वगानि, स्वस्थाने तु | तुल्यानि । तेभ्योऽप्युभयपार्श्वस्थानि चतुःसामयिकान्यसङ्खयेषगुणानि, स्वस्थाने तु तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि त्रिसामयि-१५ कानि । तेभ्योऽप्यसंख्येयगुणानि द्विसामयिकानि ॥ १३ ॥
जोगट्टाणपरूवणा भणिया। इयाणिं एएसु वद्यमाणाणं जीवाणं एगिदियसुहमवादरवेइंदियतेइंदियचउरिंदियअसन्निपंचिंदियसन्निपंचिंदियाणं अपजत्तपज्जत्तगाणं जहन्नुकोसजोगअप्पाबहुगनिरूवणत्थं सुत्त भण्णइसव्वत्थोवो जोगो साहारणसुहमपढमसमयम्मि । बायरबियतियचउरमणसन्नपजत्तगजहण्णो ॥१४॥
ISADSO